________________
सू० ६१७३] जय-पराजयव्यवस्था
६५३ निष्क्रियो विभुत्वात् , यत्पुनः सक्रियं तन्न विभु यथा लोष्टादि, विभुश्चात्मा, तस्मानिष्क्रियः' इत्युक्ते परः प्राह-निष्क्रियत्वे सत्यात्मनः क्रियाहेतुगुणाश्रयत्वं न स्यादाकाशवत्, अस्ति चैतत्, ततो नायं निष्क्रिय इति । साधर्म्यण तु प्रत्यवस्थानम्'क्रियावानेवात्मा क्रियाहेतुगुणाश्रयत्वात्, य ईदृशः स ईदृशो५ दृष्टः यथा लोष्टादिः, तथा चात्मा, तस्माक्रियावानेव' इति ।
उत्कर्षसमादीनां लक्षणम्-"साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यसमः” [ न्यायसू० ५।११४ ] इति ।
तत्रोत्कर्षसमायास्तावल्लक्षणम्-दृष्टान्तधर्म साध्ये समासञ्ज-१० यतो मतोत्कर्षसमा जातिः । तद्यथा-'क्रियावानात्मा क्रियाहेतुगुणाश्रयत्वाल्लोष्टवत्' इत्युक्ते परः प्रत्यवतिष्ठते-यदि क्रियाहेतुगुणाश्रयो जीवो लोष्टवत्क्रियावास्तदा तद्वदेव स्पर्शवान्भवेत्। अथ न स्पर्शवांस्तर्हि क्रियावानपि न स्यादविशेषात्।
यस्तु तत्रैवं क्रियावजीवसाधने प्रयुक्ते साध्ये साध्यधर्मिणि १५ धर्मस्याभावं दृष्टान्तात्समासञ्जयन्वक्ति सोऽपकर्षसमां जाति वक्ति । यथा लोष्टः क्रियाश्रयोऽसर्वगतो दृष्टस्तद्वदात्माप्यसर्वगतोस्तु, विपर्यये विशेषो वा वाच्य इति । __ ख्यापनीयो वोऽख्यापनीयोऽवर्ण्यः । तेन वयेनावयेन च समा जातिः। तद्यथात्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-यद्या-२० त्मा क्रियावान् वर्ण्यः साध्यस्तदा लोष्टौदिरपि साँध्योस्तु । अथ लोष्टादिरवर्ण्यस्तात्माप्यवोस्तु विशेषाभावादिति।।
विकल्पो विशेषः, साध्यधर्मस्य विकल्पं धर्मान्तर विकल्पात्प्रसञ्जयतो विकल्पसमा जातिः । यथात्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-क्रियाहेतुगुणोपेतं किश्चिहरु दृश्यते यथा लोष्टादि,२५ किञ्चित्तु लघूपलभ्यते यथा वायुः, तथा क्रियाहेतुगुणोपेतमपि किञ्चित्क्रियाश्रयं युज्येत यथा लोष्टादि, किञ्चित्तु निष्क्रिय यथात्मेति ।
१ वादिना । २ आत्मा । ३ सामान्यलक्षणम् । ४ साध्यः पक्षः। ५ विकल्प:समारोपः । ६ समारोपयतः । ७ क्रियाहेतुगुणाश्रयत्वस्य । ८ पक्षे। ९ सर्वगतत्वलक्षणस्य । १० सर्वगतत्वे । ११ वादिना त्वया। १२ साध्यधर्मिधर्मः। १३ पक्षः। १४ दृष्यन्तोपि । १५ पक्षोस्तु । १६ क्रियाश्रयत्वस्य । १७ भेदम् । १८ धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः। १९ प्रतिवादिनः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org