SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ ६३४ प्रमेयकमलमार्तण्डे [५. तदाभासपरिक तीते। अविनाभावनिबन्धनो हि गम्यगमकभावः, न तु व्यधिः करणाव्यधिकरणनिबन्धनः ‘स श्यामस्तत्पुत्रत्वात्, धवल: प्रासादः काकस्य कार्य्यात्' इत्यादिवत् । नेच व्यधिकरणस्यापि गमकत्वे अविद्यमानसत्ताकत्वलक्षण ५मसिद्धत्वं विरुध्यते; न हि पक्षेऽविद्यमानसत्ताकोऽसिद्धोऽभिप्रतो गुरूणाम् । किं तर्हि ? अविद्यमाना साध्येनासाध्येनोभयेन वाऽविनाभाविनी सत्ता यस्यासावसिद्ध इति । भागासिद्धस्याप्यविनाभावसद्भावाद्गमकत्वमेव । न खलु प्रयनानन्तरीयकत्वमनित्यत्वमन्तरेण कापि दृश्यते । याति च १० तत्प्रवर्तते तावतः शब्दस्यानित्यत्वं ततः प्रसिद्धयति, अन्यस्य त्वन्यतः कृतकत्वादेरिति । यद्वा-'प्रयत्नानन्तरीयकत्वहेतूपादानसामर्थ्यात्' प्रयत्नानन्तरीयक एव शब्दोत्र पक्षः । तत्र चास्य सर्वत्र प्रवृत्तः कथं भागासिद्धत्वमिति? अथेदानी द्वितीयमसिद्धप्रकारं व्याचष्टे१५ अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र भूमादिति ॥ २५॥ कुतोस्याविद्यमाननियततेत्याहतस्य बाष्पादिभावेन भूतसंघाते सन्देहात् ॥ २६ ॥ २० मुग्धबुद्धर्बाष्पादिभावेन भूतसंघाते सन्देहात्। न खलु साध्य साधनयोरव्युत्पन्नप्रज्ञः 'धूमादिरीदृशो बाष्पादिश्चेदृशः' इति विवेचयितुं समर्थः। . साङ्ख्यं प्रति परिणामी शब्दः कृतकत्वादिति ॥ २७॥ २५ चाविद्यमाननिश्चयः। कुत एतत् ? तेनाज्ञातत्वात् ॥ २८॥ १ अभ्यधिकरणव्यधिकरणत्वमुभयत्रास्ति तथाप्यविनाभावाभावेनासद्धेतुत्वमिति भावः। २ न चाशनीयम् । ३ दृष्टान्तेन । ४ हेतोः। ५ साधनम् । ३ पुरुषव्यापारोत्पन्ने शब्दे । ७ मेघादिशब्दस्य धर्मिरूपस्य । ८ पृथिव्यादिलक्षणानां भूताना संघातो धूमस्वस्मिन् धूमे। ९ विधमानधूमेपि । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy