________________
सू० ६।२०- २४] हेत्वाभासविचारः
६३३
कत्वलक्षणासिद्धप्रकारान्नार्थान्तरम्, तल्लक्षणभेदाभावात् । यथैव हि स्वरूपासिद्धस्य स्वरूपतोऽसत्त्वादसत्सत्ताकत्वलक्षणमसिद्धत्वं तथा विशेष्यासिद्धादीनामपि विशेष्यत्वादिस्वरूपतोऽसत्त्वात्तल्लक्षणमेवासिद्धत्वम् ।
तत्र विशेष्यासिद्धो यथा - अनित्यः शब्दः सामान्यवत्त्वे सति ५ चाक्षुषत्वात् ।
विशेषणासिद्धो यथा - अनित्यः शब्दश्चाक्षुषत्वे सति सामान्यवत्त्वात् ।
आश्रयासिद्धो यथा - अस्ति प्रधानं विश्वपरिणामित्वात् । यथा - नित्याः परमाणुप्रधानात्मेश्वरा १०
आश्रयैकदेशासिद्धो अकृतकैत्वात् ।
व्यर्थविशेष्यासिद्धो यथा - अनित्याः परमाणवः कृतकत्वे सति सामान्यवत्त्वात् ।
व्यर्थविशेषणासिद्धो यथा - अनित्याः परमाणवः सामान्यवत्त्वे सति कृतकत्वात् । व्यर्थविशेष्यविशेषणैश्चासावसिद्धश्चेति । १५ व्यर्धिकरणासिद्धो यथा - अनित्यः शब्दः पटस्य कृतकत्वात् । व्यधिकरणश्चासावसिद्धश्चेति । ननु शब्दे कृतकत्वमस्ति तत्कथमस्यासिद्धत्वम् ? तदयुक्तम्; तस्य हेतुत्वेनाप्रतिपादितत्वात् । न चान्यत्र प्रतिपादितमन्यत्र सिद्धं भवत्यतिप्रसङ्गात् ।
भीगासिद्धो यथा - [अ] नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । २० व्यधिकरणासिद्धत्वं भागासिद्धत्वं च पैरप्रक्रिया प्रदर्शनमात्रं न वस्तुतो हेतुदोषः व्यधिकरणस्यापि 'उदेष्यति शकटं कृत्तिकोदयात् उपरि वृष्टो देवोऽधः पूरदर्शनात् इत्यादेर्गमकत्वप्र
१ परमार्थतः प्रधानं नास्तीति भावः । २ अयमाश्रयस्तत्र प्रधानेश्वरौ न स्त एव । ३ कृतकत्वेनाऽनित्यत्वसिद्धिर्थतः । ४ व्यर्थ विशेषणं यस्य स तथोक्तः, स चासावसिद्धश्चति विग्रहः । ५ विशेष्यं च विशेषणं च विशेष्यविशेषणे, व्यर्थे विशेष्यविशेषणे यस्येति विग्रहः । ६ विभिन्नमधिकरणमस्येति विग्रहः । ७ शब्दस्थस्य कृतकत्वस्य । ८ तथा प्रतिपादितमपि कृतकत्वं शब्दे सिद्धं भविष्यतीत्युक्ते सत्याह । ९ एकत्र हेतूपन्यासे सर्वत्र साध्यसिद्धिप्रसङ्गात् । १० पक्षैकभागे असिद्धः, आश्रयैकदेशासिद्धभागासिद्धयोरयं विशेषः- तत्राश्रयैकदेशोऽसिद्धो हेतुश्च सिद्ध एव,
अत्र स्वाश्रयैकदेशे हेतुरसिद्ध आश्रयैकदेशस्तु सिद्ध एव । पुरुषव्यापारोत्पन्ने शब्दे न तु मेघादिशब्दे इति भावः । १३ जैनानाम् ।
Jain Educationa International
११ प्रयत्नानन्तरीयकत्वं १२ परे नैयायिकादयः ।
For Personal and Private Use Only
www.jainelibrary.org