________________
प्रमेयकमलमार्तण्डे [५. तदाभासपरिक लोके हि प्राण्यङ्गत्वाविशेषेपि किश्चिदपवित्रं किञ्चित्पवित्रं च वस्तुखभावात्प्रसिद्धम् । यथा गोपिण्डोत्पन्नत्वाविशेषेपि वस्तुख. भावतः किञ्चिदुग्धादि शुद्धं न गोमांसम् । यथा वा मणित्वावि. शेषेपि कश्चिद्विषापहारादिप्रयोजनविधायी महामूल्योऽन्यस्तु ५तद्विपरीतो वस्तुखभाव इति । __ खवचनबाधितो यथामाता मे वन्ध्या पुरुषसंयोगेप्यगर्भवा
प्रसिद्धवन्ध्यावत् ॥ २०॥ । अथेदानी पक्षाभासानन्तरं हेत्वाभासेत्यादिना हेत्वाभासानाहहेत्वाभासा असिद्धविरुद्धानैकान्ति
काऽकिश्चित्कराः ॥२१॥ साध्याविनाभावित्वेन निश्चितो हेतुरित्युक्तं प्राक । तद्विपरीतास्तु हेत्वाभासाः । के ते? असिद्धविरुद्धानकान्तिकाऽकिञ्चित्कराः। १५ तत्रासिद्धस्य स्वरूपं निरूपयति
असत्सत्तानिश्चयोऽसिद्धः इति ॥ २२ ॥ सत्ता च निश्चयश्च [सत्तानिश्चयौं] असन्तौ सत्तानिश्चयौ यस्य स तथोक्तः। तत्रअविद्यमानसत्ताकः परिणामी शब्दश्चाक्षु
- षत्वादिति ॥ २३ ॥ कथमस्याऽसिद्धत्वमित्याह
खरूपेणासिद्धत्वात् इति ॥ २४ ॥ चक्षुर्सानग्राह्यत्वं हि चाक्षुषत्वम्, तच्च शब्दे स्वरूपेणासत्त्वादसिद्धम् । पौगलिकत्वात्तत्सिद्धिः; इत्यप्यपेशलम् । तदविशेषेप्यनुः २५द्भूतखभावस्थानुपलम्भसम्भवाजलकनकादिसंयुक्तानले भासुर
रूपोष्णस्पर्शवदित्युक्तं तत्पौगलिकत्वसिद्धिप्रघट्टके। -- ये च विशेष्यासिद्धादयोऽसिद्धप्रकाराः परैरिष्टास्तेऽसत्सत्ता
१ श्रावणज्ञानप्राशत्वमस्येति। २ रूपादिलक्षणस्य, यसः। ३ चक्षुषा।
-
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org