SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ सू० ६१७-१९] . अनुमानाभासविचार: . तत्रानुमानाभासेऽनिष्टादिः पक्षाभासः। तत्र अनिष्टो मीमांसकस्याऽनित्यः शब्द इति ॥१३॥ - स हि प्रतिवाद्यादिदर्शनात्कदाचिदाकुलितबुद्धिर्विस्मरन्ननभिनेतमपि पक्षं करोति। तथा सिद्धः श्रावणः शब्दः॥ १४॥ ५ सिद्धः पक्षाभासः, यथा श्रावणः शब्द इति, वादिप्रतिवादिनोस्तत्राऽविप्रतिपत्तेः । तथाबाधितः प्रत्यक्षानुमानागमलोकखवचनैः॥१५॥ पक्षाभासो भवति । तत्र प्रत्यक्षबाधितो यथा अनुष्णोनिद्रव्यत्वाजलवत् ॥ १६ ॥ अनुमानबाधितो यथाअपरिणामी शब्दः कृतकत्वाद्धटवत् ॥ १७ ॥ तथाहि-'परिणामी शब्दोऽर्थक्रियाकारित्वात्कृतकत्वाद् घटवत्' इति अर्थक्रियाकारित्वादयो हि हेतवो घटे परिणामित्वे १५ सत्येवोपलब्धाः, शब्देप्युपलभ्यमानाः परिणामित्वं प्रसाधयन्ति इति 'अपरिणामी शब्दः' इति पक्षस्यानुमानबाधा। आगमबाधितो यथाप्रेत्याऽसुखप्रदो धर्मः पुरुषाश्रितत्वादधर्म ___ वदिति ॥ १८॥ आगमे हि धर्मस्याभ्युदयनिःश्रेयसहेतुत्वं तद्विपरीतत्वं चाय. र्मस्य प्रतिपाद्यते । प्रामाण्यं चास्य प्रागेव प्रतिपादितम् । लोकबाधितो यथाशुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्घशुक्ति वदिति ॥ १९॥ .-१ बाधितः ।...२. आदिना सभ्यसभापत्यादिग्रहः। ३ स्वाभिप्रेतं नित्यः शब्द इति पक्षम् । . Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy