________________
६३०
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० भासं बौद्धस्याकस्मिकधूमदर्शनाद्वह्निविज्ञानवत् इत्यप्युक्तं प्रपश्वतः प्रत्यक्षपरिच्छेदे। वैशयेपि परोक्षं तदाभासं मीमांसकस्य
करणज्ञानवत् ॥ ७॥ ५ न हि करणशाने व्यवधानेन प्रतिभासलक्षणं वैशद्यमसिद्धं खार्थयोः प्रतीत्यन्तरनिरपेक्षतया तत्र प्रतिभासनादित्युक्तं तत्रैव । तथाऽनुभूतेथें तदित्याकारा स्मृतिरित्युक्तम् । अननुभूते. अतस्मिंस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते
___ स देवदत्तो यथेति ॥ ८॥ १० तथैकत्वादिनिबन्धनं तदेवेदमित्यादि प्रत्यभिज्ञानमित्युक्तम् । तद्विपरीतं तुसदृशे तेदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् ॥ ९॥ असम्बन्धे तज्ज्ञानं तर्काभासम्, यावाँस्त
त्पुत्रः स श्यामः इति यथा ॥ १०॥ व्याप्तिज्ञानं तर्क इत्युक्तम् । ततोन्यत्पुनः असम्बन्धे-अव्याप्ती तज्ज्ञानं व्याप्तिज्ञानं तर्काभासम् । यावाँस्तत्पुत्रः स श्याम इति यथा।
. इदमनुमानाभासम् ॥ ११॥ २० साधनात्साध्यविज्ञानमनुमानमित्युक्तम् । तद्विपरीतं त्विदं वक्ष्यमाणमनुमानाभासम् । पक्षहेतुदृष्टान्तपूर्वकश्चानुमानप्रयोगः प्रतिपादित इति । तत्रेत्यादिना यथाक्रमं पक्षाभासादीनुदाहरति।
तत्र अनिष्टादिः पक्षाभासः॥ १२॥ -- १ यथा धूमबाष्पादिविवेकनिश्चयाभावाद्वयाप्तिग्रहणाभाकादकस्साद्भूमदर्शनाजातं यदहिविज्ञानं तत्तदाभासं भवति कस्मादनिश्चयात् , तथा बौद्धपरिकल्पितं यनिर्विकल्पकप्रत्यक्षं तत् प्रत्यक्षाभासं भवति कस्मादनिश्चयात् । २ एकत्वप्रत्यभिज्ञानाभासम् । ३ सादृश्यप्रत्यभिशानाभासम्, स्वयं स्वेन सदृशमित्यर्थः । ४ यमलकं-युगलम् । ५ अविनाभावाभावे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org