________________
" श्री। अथ पञ्चमः परिच्छेदः॥
अथेदानीं तैदाभासखरूपनिरूपणाय
ततोन्यत्तदाभासम् ॥१॥ इत्याद्याह।
प्रतिपादितखरूपात्प्रमाणसंख्याप्रमेयफलाद्यदन्यत्तत्तदाभास. मिति । तदेव तथाहीत्यादिना यथाक्रमं व्याचष्टे । तत्र प्रतिपादि-५ तखरूपात्स्वार्थव्यवसायात्मकप्रमाणादन्येअखेसंविदितगृहीतार्थदर्शनसंशयादयः
प्रमाणाभासाः ॥ २॥ प्रवृत्तिविषयोपदर्शकत्वाभावात् ॥३॥ पुरुषान्तरपूर्वार्थगच्छत्तॄणस्पर्शस्थाणुपु- १०
रुषादिज्ञानवत् ॥ ४॥ चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च ॥ ५॥ एतच्च सर्व प्रमाणसामान्यलक्षणपरिच्छेदे विस्तरतोऽभिहितमिति पुनर्नेहाभिधीयते । तथा अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्मा- १५
झूमदर्शनाद् वहिविज्ञानवत् ॥ ६॥ विशदं प्रत्यक्षमित्युक्तं ततोन्यस्मिन्नऽवैशये सति प्रत्यक्षं तदा
१ तेषां प्रमाणसंख्याविषयफलानाम् । २ अस्वसंविदितस्य स्वग्राहकत्वाभावेना. र्थप्रतिपत्त्ययोगात्प्रवृत्तिविषयोपदर्शकत्वाभावः । ३ निर्विकल्पकं दर्शनम् , तस्य प्रवृत्तिविषयोपदर्शकत्वाभावस्त्रजनितविकल्पस्यैव तदुपदर्शकत्वात् । ४ आदिना विपर्ययानध्यवसायो। ५ अत्रोदाहरणानि यथाक्रममाह। ६ सन्निकर्षवादिनं प्रत्यपरं च दृष्टान्तमाह । ७ अयमों-यथा चक्षुरसयोः संयुक्तसमवायः सन्नपि न प्रमाणं तथा चक्षुरूप. योरपि । तस्मादयमपि प्रमाणाभास एवेति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org