SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्त्तण्डे [ ४. विषयपरि० योऽनेकान्तपदं प्रवृद्धमतुलं स्वष्टार्थसिद्धिप्रदम्, प्राप्तोऽनन्तगुणोदयं निखिलविन्निःशेषतो निर्मलम् । स श्रीमानखिलप्रमाणविषयो जीयाजनानन्दनः, मिथ्यैकान्तमहान्धकाररहितः श्रीवर्द्धमानोदितः ॥ इति श्रीप्रभाचन्द्रविरचिते प्रमेयकमलमार्तण्डे परीक्षामुखालङ्कारे चतुर्थः परिच्छेदः ॥ श्रीः ॥ ६२८ १ अखिलप्रमाणविषयपक्षे निखिलवित् केवलज्ञानं यस्मादनेकान्तपदात्तन्निखिलविदनेकान्तपदम् । सर्वज्ञपक्षे तु निखिलं वेत्तीति निखिलवित् । एतत्पदं सर्वज्ञापर - नामकं विशेष्यमपराणि विशेषणानि । ततश्च निखिलवित्सर्वज्ञो जीयात् । विषयपक्षेsखिलानां प्रमाणानां विषयोऽर्थ इति यसपूर्वकस्तासः । सर्वज्ञपक्षे तु निखिलवित्कथम्भूतः अखिलप्रमाणविषयः सर्वप्रमाणग्राह्य इत्यर्थः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy