________________
सू० ५।३] फलस्वरूपविचारः हि काष्ठादेश्छिदा निरूप्यमाणा छेद्यद्रव्यानुप्रवेशलक्षणैवावतिष्ठते । स चानुप्रवेशो वास्यादेरात्मगत एव धर्मो नार्थान्तरम् । ननु छिदा काष्ठस्था वास्यादिस्तु देवदत्तस्थ इत्यनयोर्भेद एव; इत्यप्यसुन्दरम्। सर्वथा मेदस्यैवैमसिद्धेः, सत्त्वादिनाऽभेदस्यापि प्रतीतेः। न च 'सर्वथा करणाद्भिन्नैव क्रिया' इति नियमोस्ति;५ 'प्रदीपः स्वात्मनात्मानं प्रकाशयति' इत्यत्राभेदेनाप्यस्याः प्रतीतेः। न खलु प्रदीपात्मा प्रदीपाद्भिन्नः तस्याऽप्रदीपत्वप्रसङ्गात् पटवत् । प्रदीपे प्रदीपात्मनो भिन्नस्यापि समवायात्प्रदीपत्वसिद्धिरिति चेत् ; न; अप्रदीपेपि घटादौ प्रदीपत्वसमवायानुषङ्गात् । प्रत्यासत्तिविशेषात्प्रदीपात्मनः प्रदीप एव समवायो नान्यत्रेति चेत् स १० कोऽन्योन्यत्र कथञ्चित्तादात्म्यात् । । एतेन प्रकाशनक्रियाया अपि प्रदीपात्मकत्वं प्रतिपादितं प्रतिपत्तव्यम् । तस्यास्ततो भेदे प्रदीपस्याऽप्रकाशकद्रव्यत्वानुषङ्गात् । तत्रास्याः समवायान्नायं दोषः, इत्यप्यसमीचीनम्; अनन्तरोक्ताऽशेषदोषानुषङ्गात् । तन्नानयोरात्यन्तिको भेदः। १५
नाप्यभेदः, तदऽव्यवस्थानुषङ्गात् । न खलु 'सारूप्यमस्य प्रमाणमधिगतिः फलम्' इति सर्वथा तादात्म्ये व्यवस्थापयितुं शक्यं विरोधात् ।
ननु सर्वथाऽमेदेप्यनयोर्व्यावृत्तिभेदात्प्रमाणफलव्यवस्था घटते एव, अप्रमाणव्यावृत्त्या हि ज्ञानं प्रमाणमफलव्यावृत्त्या च फलम् । २० इत्यप्यविचारितरमणीयम्; परमार्थतः स्वेष्टेसिद्धिविरोधात् । न च खभावमेदमन्तरेणान्यव्यावृत्तिभेदोप्युपपद्यते इत्युक्तं सारूप्यविचारे । कथं चास्याऽप्रमाणफलव्यावृत्या प्रमाणफलव्यवस्थावत् प्रमाणफलान्तरव्यावृत्त्याऽप्रमाणफलव्यवस्थापि न स्यात् ? ततः पारमार्थिक प्रमाणफले प्रतीतिसिद्ध कथञ्चिद्भिन्ने प्रतिपत्तव्ये २५ प्रमाणफलव्यवस्थान्यथानुपपत्तेरिति स्थितम् ।
१ दृश्यमाना क्रियमाणा वा। २ भिन्नाधिकरणत्वेन। ३ लोके । ४ आत्मा स्वरूपं प्रदीपत्वमिति यावत् । ५ अन्यथा। ६ प्रदीपप्रदीपात्मनोरमेदप्रतिपादनेन। ७ प्रमाणफलयो। ८ सौगतमाशङ्कयोच्यते। ९ अर्थेन सादृश्यं प्रमाणम् । १० निर्विकल्पकशानस्य । ११ वेष्टः प्रमाणफलयो दः । १२ पारमा.. र्थिककथचिद्भिन्नत्वव्यतिरेकेण । ..
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org