SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ ६२६ प्रमेयकमलमार्तण्डे [४. विषयपरि० अत आह-हानोपादानोपेक्षाश्च प्रमाणाद्भिन्नं फलम् । अत्रापि कथञ्चिद्भेदो द्रष्टव्यः। सर्वथा भेदे प्रमाणफलव्यवहारविरोधात् । अमुमेवार्थ स्पष्टयन् यः प्रमिमीते इत्यादिना लौकिकेतरप्रति. पत्तिप्रसिद्धां प्रतीति दर्शयति५ यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः॥ ५॥३॥ यः प्रतिपत्ता प्रमिमीते स्वार्थग्रहणपरिणामेन परिणमते स एव निवृत्ताज्ञानः स्वविषये व्यामोहविरहितो जहात्यभिप्रेतप्रयो जनाप्रसाधकमर्थम्, तत्प्रसाधकं त्वादत्ते, उभयप्रयोजनाऽप्र१० साधकं तूपेक्षणीयमुपेक्षते चेति प्रतीतेः प्रमाणफलयोः कथश्चिद्भेदाभेव्यवस्था प्रतिपत्तव्या। नन्वेवं प्रमातृप्रमाणफलानां भेदाभावात्प्रतीतिप्रसिद्धस्तद्व्यव. स्थाविलोपः स्यात्, तदसाम्प्रतम् । कथञ्चिल्लक्षणभेदतस्तेषां भेदात् । आत्मनो हि पदार्थपरिच्छित्तौ साधकतमत्वेन व्याप्रि१५ यमाणं स्वरूपं प्रमाणं निर्व्यापारम्, व्यापारं तु क्रियोच्यते, खातन्येण पुनर्व्याप्रियमाणं प्रमाता, इति कथश्चित्तद्भेदः । प्राक्तनपर्यायविशिष्टस्य कथञ्चिदवस्थितस्यैव बोधेस्य परिच्छित्तिविशेषरूपतयोत्पत्तेरभेद इति । साधनमेदाच तद्भेदः, करणसाधनं हि प्रमाणं साधकतमखभावम् , कर्तृसाधनस्तु २० प्रमाता स्वतन्त्रवरूपः, भावसाधना तु क्रिया खार्थनिर्णीतिखभावा इति कथञ्चिद्भेदाभ्युपगमादेव कायकारणभावस्याप्यविरोधः। - यच्चोच्यते-आत्मव्यतिरिक्तक्रियाकारि प्रमाणं कारकत्वाद्वा. स्यादिवत् तत्र कथञ्चिद्भेदे साध्ये सिद्धसाध्यता, अज्ञाननिवृत्ते. २५ स्तद्धर्मतया हानादेश्च तत्कार्यतया प्रमाणात्कञ्चिद्भेदाभ्युपग. मात् । सर्वथा भेदे तु साध्ये साध्यविकलो दृष्टान्तः, वास्यादिना १ इतरः शास्त्रज्ञः। २ यः प्रतिपत्ता प्रमिमीते इत्यादिप्रकारेण । ३ आत्मस्वरूपम् । ४ परिच्छित्तिरूपा। ५ प्रमाणस्य । ६ फलरूपतया । ७ साधनं करण. कादि। ८ प्रमातृप्रमाणपरिच्छित्तिभेदः। ९ करणे साधनं व्युत्पादनं यस्य, प्रमीयते वस्तुतत्त्वं येनेति तत्करणसाधनं प्रमाणम् । १० कर्तरि साधनं व्युत्पादन यस्य प्रमातुः, प्रमिमीते इति तथोक्तः । ११ प्रमितिः प्रमाणम् । १२ यः प्रतिपत्ता प्रमिमीते इत्यनेन प्रकारेण प्रमाणफलयोरभेदे कार्यकारणभावविरोध इत्युक्ते सत्साह । १३ आत्मा-खरूपम्। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy