________________
सू० ४.१०] फलस्वरूपविचारः
६२५ द्विविधं हि प्रमाणस्य फलं ततो भिन्नम् , अभिन्नं च । तत्राज्ञाननिवृत्तिःप्रमाणादभिन्नं फलम् । ननु चाज्ञाननिवृत्तिःप्रमाणभूतज्ञानमेवं, न तदेव तस्यैव कार्य युक्तं विरोधात् , तत्कुतोसौ प्रमाणफलम् ? इत्यनुपपन्नम् ; यतोऽज्ञानमज्ञप्तिः स्वपररूपयोामोहः, तस्य निवृत्तियथावत्तद्रूपयोज्ञप्तिः, प्रमाणधर्मत्वात् तत्कार्यतया५ न विरोधमध्यास्ते । स्वविषये हि स्वार्थखरूपे प्रमाणस्य व्यामोहविच्छेदाभावे निर्विकल्पकदर्शनात् सन्निकर्षाच्चाविशेषप्रसङ्गतः प्रामाण्यं न स्यात् । न च धर्मधर्मिणोः सर्वथा भेदोऽभेदो वा; तद्भावविरोधानुषङ्गात् तदन्यतरवदन्तिरवञ्च । । अथाज्ञाननिवृत्तिर्ज्ञानमेवेत्यनयोः सामर्थ्यसिद्धत्वान्यथानुपप-१० त्तेरभेदः, तन्न; अस्याऽविरुद्धत्वात् । सामर्थ्य सिद्धत्वं हि भेदे सत्येवोपलब्धं निमन्त्रणे आकारणवत् । कथं चैवं वादिनो हेतावन्वयव्यतिरेकधर्मयोर्भेदः सिध्येत्? 'साध्यसद्भावेऽस्तित्वमेव हि साध्याभावे हेतो स्तित्वम्' इत्यनयोरपि सामर्थ्यसिद्धत्वाविशेषात् ।
ने चानयोरमेदे कार्यकारणभावो विरुध्यते; अभेदस्य तद्भावा. विरोधकत्वाजीवसुखादिवत् । साधकतमखभावं हि प्रमाणम् खपररूपयोतिलक्षणामज्ञाननिवृत्तिं निर्वर्त्तयति तत्रान्येनास्या निर्वर्तनाभावात् । साधकतमस्वभावत्वं चास्य स्वपरग्रहणव्यापार एव तनहणाभिमुख्यलक्षणः । तद्धि स्वकारणकलापादुपजायमानं २० खपरग्रहणव्यापारलक्षणोपयोगरूपं सत्वार्थव्यवसायरूपतया परिणमते इत्यभेदेऽप्यनयोः कार्यकारणभावाऽविरोधः।
नन्वेवमज्ञाननिवृत्तिरूपतयेव हानादिरूपतयाप्यस्य परिणमनसम्भवात् तदप्यस्याऽभिन्नमेव फलं स्यात् ; इत्यप्यसुन्दरम् ; अज्ञा. ननिवृत्तिलक्षणफलेनास्य व्यवधानसम्भवतो भिन्नत्वाविरोधात् ।२५
१ सौगतः प्राह । २ अज्ञाननिवृत्तः । ३ प्रमाणविषये । ४ प्रमाणधर्मत्वादिले. तस्याऽसिद्धत्वनिरासार्थमिदम् । ५ ज्ञानाशाननिवृत्त्योः सामर्थ्यमस्ति तच्चामेदमन्तरेण नोपपद्यते तस्मादनयोरभेद इति भावः । ६ अभेदमन्तरेण । ७ भेदस्य । ८ आहानवत् । ९ अज्ञाननिवृत्तिानमेवेत्यनयोः सामर्थ्यसिद्धत्वान्यथानुपपत्तेरभेद इत्येवंवादिनः । १० नन्वज्ञाननिवृत्तिः प्रमाणादभिन्नं फलमित्यनेन प्रकारेण प्रमाणफलयोरभेदे कार्यकारणभावो विरुध्यत इत्युक्ते सत्याह । ११ प्रमाणाशाननिवृत्त्योः । १२ सन्निकर्षादिना । १३ अर्थग्रहणे व्यापारो झुपयोग इति वचनात् । १४ प्रमाणफलयोः। १५ साक्षात्फलमेतत् । १६ परम्पराफलमेतत् । १७ हानादेः । १८ प्रमाणादशाननिवृत्तिः फलं स्याद, अज्ञाननिवृत्तिफलात्पश्चाद्धानोपादानोपेक्षाश्च 'फलं स्यादिति भावः ।
प्र.क. मा. ५३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org