SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ ६२४ प्रमेयकमलमार्त्तण्डे [ ४. विषयपरि० त्पत्ती साधारणं निमित्तम् ? सहकारिमात्रत्वेन चेत् तर्हि सकलार्थगतिस्थितीनां सकृद्भवां धर्माधर्मौ सहकारिमात्रत्वेन साधारणं निमित्तं किन्नेष्यते ? पृथिव्यादिरेव साधारणं निमित्तं तासाम्; इत्यप्यसङ्गतम् ५ गगनवर्त्तिपदार्थगतिस्थितीनां तदसम्भवात् । तर्हि नभः साधारणं निमित्तं तासामस्तु सर्वत्र भावात्; इत्यप्यपेशलम् ; तस्यावगाहनिमित्तत्वप्रतिपादनात् । तस्यैकस्यैवाने कार्यनिमित्ततायाम् अनेक सर्वगतपदार्थपरिकल्पनानर्थक्यप्रसङ्गात्, कालात्मदि क्सामान्यसमवाय कार्यस्यापि यौगपद्यादिप्रत्ययस्य बुद्ध्यादेः १० 'इदमतः पूर्वेण' इत्यादिप्रत्ययस्य अन्वयज्ञानस्य 'इहेदम्' इति प्रत्ययस्य च नभोनिमित्तस्योपपत्तेस्तस्य सर्वत्र सर्वदा सद्भावात् । कार्यविशेषात्कालादिनिमित्तभेदव्यवस्थायाम् तत एव धर्मादिनिमित्तभेदव्यवस्थाप्यस्तु सर्वथा विशेषाभावात् । एतेनादृष्टनिमित्तत्वमप्यासां प्रत्याख्यातम् पुगलानामदृष्टा१५ सम्भवाच्च । ये यदात्मोपभोग्याः पुद्गलास्तद्गतिस्थितयस्तदात्माऽष्टनिमित्ताश्चेत्; तर्ह्यसाधारणं निमित्तमदृष्टं तासां प्रतिनियतात्मादृष्टस्य प्रतिनियतद्रव्यगतिस्थितिहेतुत्वप्रसिद्धेः । न च तदनिष्टं तासां क्षमादेरिवासाधारणकारणस्यादृष्टस्यापीष्टत्वात् । साधारणं तु कारणं तासां धर्माधर्मावेवेति सिद्धः कार्यविशेषात्तयोः सद्भाव इति* । २० अथेदानीं फैलविप्रतिपत्तिनिराकरणार्थमज्ञान निवृत्तिरित्या द्याह २५ अज्ञाननिवृत्तिः हानोपादानोपेक्षाश्च फलम् ॥ ५१ ॥ प्रमाणादभिन्नं भिन्नं च ॥ ५२ ॥ १ तस्याः । २ अनेकानि = गतिस्थित्यवगाहलक्षणानि । ३ कार्यविशेषत्वस्य । ४ सकृद्भुवां सकलार्थगतिस्थितीनां नभोनिमित्तत्वनिराकरणेन । ५ तेषां पुद्गलानाम् । ६ येनात्मना ते पुद्गला उपभुज्यन्ते तस्य । ७ गत्यादीनाम् । ८ पृथिव्यादेः । ९ जनानाम् । १० विषयविप्रतिपत्तिनिराकरणानन्तरम् । ११ प्रमाणाद्भिन्नमेव फलमिति यौगाः अभिन्नमेवेति सौगता इति भिन्नाभिन्नत्वाभ्यां फले विप्रतिपत्तिः । * ( परीक्षामुखे - प्रमेयरलमालायां च अत्रैव चतुर्धपरिच्छेदस्य समाप्तिः 'अज्ञाननिवृत्तिः' इत्यादिसूत्रं तु पंचमाध्याये संगणितम् ) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy