________________
सू० ४.१०] धर्माधर्मद्रव्यविचारः
६२३ तनतया प्रतिभासाभावः, नं; युतसिद्धत्वस्योपरितनत्वप्रतीत्यहेतुत्वात्, अन्यथोद्यवस्थितवंशादेः क्षीरनीरयोश्च सम्बन्धे तत्प्रसङ्गात् । ततः परपरिकल्पितपदार्थानां विचार्यमाणानां स्वरूपाव्यवस्थितेः कथं 'षडेव पदार्थाः' इत्यवधारणं घटते स्वरूपासिद्धौ संख्यासिद्धेरभावात् ?
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छल[जाति निग्रहस्थानानां नैयायिका. भ्युपगतषोडशपदार्थानां षट्पदार्थाधिक्येन व्यवस्थानाञ्च । न च पदार्थषोडशकस्य षट्रस्वेवान्तर्भावानातोधिकपदार्थव्यवस्थेत्यभिधातव्यम् ; द्रव्यादीनामपि षण्णां प्रमाणप्रमेयरूपपदार्थद्वये-१० ऽन्तर्भावात्पदार्थषट्कस्याप्यनुपपत्तेः। अथ तदन्तर्भावेप्यवान्तरविभिन्नलक्षणवशात् प्रयोजनवशाच द्रव्यादिषट्कव्यवस्था; तर्हि तत एव प्रमाणादिषोडशव्यवस्थाप्यस्तु विशेषाभावात् । न च सापि युक्ता; परोपगतवरूपाणां प्रमाणादीनां यथास्थानं प्रतिषेधात्, विपर्ययानध्यवसाययोश्च प्रमाणादिषोडशपदार्थेभ्यो-१५ ऽर्थान्तरभूतयोः प्रतीतेः।
धर्माधर्मद्रव्ययोश्च । कुतः प्रमाणात्तत्सिद्धिरिति चेत् ? अनुमानात्; तथाहि-विवादापन्नाः सकलजीवपुद्गलाश्रयाः सकृद्तयः साधारणबाह्य निमित्तापेक्षाः, युगपद्भाविगतित्वात् , एकसरःसलिला श्रयानेकमत्स्यगतिवत् । तथा सकलजीवपुद्गलस्थितयः२० साधारणबाह्यनिमित्तापेक्षाः, युगपद्भाविस्थितित्वात्, एककुण्डाश्रयानेकबदरादिस्थितिवत् । यत्तु साधारणं निमित्तं स धर्मोऽधर्मश्च, ताभ्यां विना तेंद्गतिस्थितिकार्यस्यासम्भवात् ।
गतिस्थितिपरिणामिन एवार्थाः परस्परं तद्धेतवश्चेत्, न; अन्योन्याश्रयानुषङ्गात्-सिद्धायां हि तिष्ठत्पदार्थभ्यो गच्छत्पदा-२५ र्थानां गतौ तेभ्यस्तिष्ठत्पदार्थानां स्थितिसिद्धिः, तत्सिद्धौ च गच्छत्पदार्थानां गतिसिद्धिरिति । साधारणनिमित्तरहिता एवाखिलार्थगतिस्थितयः प्रतिनियतस्वकारणपूर्वकत्वादिति चेत्, कथमिदानीं नर्तकीक्षणो निखिलप्रेक्षकजनानां नानातवेदनो
१ इति चेन्न इत्यर्थः । २ युतसिद्धयोः। ३ उपरितनतया प्रतिभासस्य । ४ प्रमाणप्रमेयपदार्थद्वयेन्तर्भावः षण्णां विश्वतत्त्वप्रकाशिकायाम्। ५ विभिन्नलक्षणक्शात्प्रयोजनवशाच्च द्रव्यादिषट्कव्यवस्था भवति प्रमाणादिषोडशव्यवस्था च न भवतीति विशेष नोत्पश्यामः। ६ बसः। ७ बाह्यं निमित्तं धर्मः। ८ अत्र निमित्तमधर्मः । ९ तस्य सकलजीवादेः। १० नर्तकी एव क्षण: पर्यायः । ११ कामोत्कटहर्षादि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org