SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ ६२२ प्रमेयकमलमार्तण्डे [४. विषयपरि० वायिनोः सम्बन्धबुद्धिनिबन्धनम् ? न ह्यङ्गुल्योः संयोगो घेटपटयोरप्रवर्त्तमानस्तयोः सम्बन्धबुद्धि निबन्धनं दृष्टः । तथा, 'इहात्मनि ज्ञानमित्यादिसम्बन्धबुद्धिर्न सम्बन्ध्यऽसम्बद्धसम्ब. न्धपूर्विका सम्बन्धबुद्धित्वात् दण्डपुरुषसम्बन्धबुद्धिवत्' इत्यनु५मानविरोधश्च । किञ्च, अयं समवायः समवायिनो परिकल्प्यते, असमवायिनोर्वा ? यद्यसमवायिनोः; घटपटयोरप्येतत्प्रसङ्गः । अथ सम.. वायिनोः, कुतस्तयोः समवायित्वम्-समवायात्, खतो वा? समवायाच्चेत् ; अन्योन्याश्रयः-सिद्धे हि समवायित्वे तयोः सम१० वायः, तस्साच तत्त्वमिति । किञ्च, अभिन्नं तेनानयोः समवायित्वं विधीयते, भिन्नं वा ? न तावदभिन्नम्। तद्विधाने गगनादीनां विधानानुषङ्गात् । भिन्नं चेत् । तयोस्तत्सम्बन्धित्वानुपपत्तिः। सम्बन्धान्तरकल्पने चान वस्था। तत एव तन्नियमे चेतरेतराश्रयः-सिद्धे हि समवायिनोः १५ समवायित्वनियमे समवाय नियमसिद्धिः, ततश्च तन्नियमसिद्धिरिति । स्वत एव तु समवायिनोः समवायित्वे किं समवायेन ? ननु संयोगेप्येतत्सर्वं समानम् ; इत्यप्यवाच्यम् ; संश्लिष्टतयोत्पन्नवस्तुखरूपव्यतिरेकेणास्याप्यसम्भवात् । भिन्नसंयोगवशात्तु संयोगिनोर्नियमे समानमेवैतत्।। २० यच्चान्यदुक्तम्-संयोगिद्रव्यविलक्षणत्वाहुणत्वादीनामित्यादि तदप्यनुक्तसमम्; यतो निष्क्रियत्वेप्येषामाधेयत्वमल्पपरिमाणत्वात् , तत्कार्यत्वात्, तथाप्रतिभासाद्वा? तत्राद्यः पक्षोऽयुक्तः, सामान्यस्य महापरिमाणगुणस्य चानाधेयत्वप्रसंङ्गात् । द्वितीय पक्षोप्यत एवायुक्तः। २५ तृतीयपक्षोप्यविचारितरमणीयः; तेषामाधेयतया प्रतिभासाभावात् । तदभावश्च रूपादीनां स्वाधारेवन्तर्बहिश्च सत्त्वात्। न हन्यत्र कुण्डादावधिकरणे बदरादीनामाधेयानां तथा सत्त्व मस्ति । अथ रूपादीनामाधेयत्वे सत्यपि युतसिद्धेरभावादुपरि १ सम्बन्धी। २ घटपटाभ्यां पृथग्भूतः। ३ शब्दगगनाभ्यां समवाय्यमित्रस्य समवायित्वस्य समवायेन विधानात्तयोरपि विधानमित्यर्थः, एवं ज्ञानात्मादिष्वपि । ४ समवायिनोरिदं समवायित्वमिति सम्बन्धाभाव इति भावः। ५ तत्सम्बन्धित्वसियर्थम् । ६ तस्य गुण्यादेः । ७ आधेयतया। ८ गगनवर्तिनः। ९ अल्पपरिमाणत्वाभावात् । १० घटादिषु। ११ आधेयस्य बहिरेव सत्त्वसद्भावादिति भावः । १२ अन्तर्बहिःप्रकारेण। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy