________________
सू० ४।१०] समवायपदार्थविचारः
६२१ तद्विशेषणता दृष्टा । न च समवायसमवायिनां सम्बन्धान्तराभिसम्बद्धत्वम् ; अनभ्युपगमात् ।
किञ्च, विशेषणभावोप्येतेभ्योत्यन्तं भिन्नस्तत्रैव कुतो नियाम्येत ? समवायाच्चेत्, इतरेतराश्रयः-समवायस्य नियमसिद्धौ हि ततो विशेषणभावस्य नियमसिद्धिः, तत्सिद्धेश्च समवायस्य ५ तत्सिद्धिरिति ।
किञ्च, अयं विशेषणभावः षट्पदार्थेभ्यो भिन्नः, अभिन्नो वा? भिन्नश्चेत् ; किं भावरूपः, अभावरूपो वा ? न तावद्भावरूपः; 'षडेव पदार्थाः' इति नियमविरोधात् । नाप्यभावरूपः; अनभ्युपगमात् । अमेदेपि न तावद्रव्यम् ; गुणाश्रितत्वाभावप्रसङ्गात् । अत एव १० न गुणोपि । नापि कर्म; कर्माश्रितत्वाभावानुषङ्गात् । “अकर्म कर्म" [ ] इत्यभिधानात् । नापि सामान्यम् ; समवाये तदनुपपत्तेः, पदार्थत्रयवृत्तित्वात्तस्य । नापि विशेषः; विशेषाणां नित्यद्रव्याधितत्वात् । अनित्यद्रव्ये चास्योपैलम्भात् समवाये चाभावानुषङ्गात् । युगपदनेकसमवायिविशेषणत्वे चास्यानेकत्व-१५ प्राप्तिः । यदिह युगपदनेकार्थविशेषणं तदने प्रतिपन्नम् यथा दण्डकुण्डलादि, तथा च समवायः, तस्मादनेक इति । न च सत्त्वादिनाऽनेकान्तः; तस्यानेकखभावत्वप्रसाधनात् । तन्न विशेषणभावेनाप्यसौ सम्बद्धः।
नाप्यऽदृष्टेन, अस्य सम्बन्धरूपत्वासम्भवात् । सम्बन्धो हि २० द्विष्ठो भवताभ्युपगतः, अदृष्टश्चात्मवृत्तितया समवायसमवायिनोरतिष्ठन् कथं द्विष्ठो भवेत् ? षोढा सम्बन्धवादित्वव्याघातश्च । यदि चाऽदृष्टेन समवायः सम्बध्यते; तर्हि गुणगुण्यादयोप्यत एव सम्बद्धा भविष्यन्तीत्यलं समवायादिकल्पनया । न चादृष्टोप्यसम्बद्धः समवायसम्बन्धहेतुः अतिप्रसङ्गात् । सम्बद्धश्चेत् ;२५ कुतोस्य सम्बन्धः? समवायाञ्चेत्, अन्योन्यसंश्रयः। अन्यतश्चेत्, अभ्युपगमव्याघातः। तन्न सम्बद्धः समवायः।
नाप्यसम्बद्धः, 'षण्णामाश्रितत्वम्' इति विरोधानुषङ्गात् । कथं चासम्बद्धस्य सम्बन्धरूपतार्थान्तरवत् ? सम्बन्धबुद्धिहेतुत्वाचेत्, महेश्वरादेरपि तत्प्रसङ्गः । कथं चासम्बद्धोसौ सम-३०
१ समवायस्य । २ समवायिभ्यः। ३ विशेषा नित्यद्रव्यवृत्तय इति वचनात् । ४ विशेषणभावस्य । ५ पूर्वम् । ६ समवायसिद्धौ हि समवायेनादृष्टस्य सम्बन्धत्वं सिध्यति तत्सिद्धौ चाऽदृष्टस्य सम्बद्धस्य समवायहेतुत्वं सिध्यति। ७ समवायः स्वत
एव सम्बद्ध इत्यभ्युपगमः। ८ मतस्य । Jain Educationa International For Personal and Private Use Only
www.jainelibrary.org