________________
६२०
प्रमेयकमलमार्तण्डे [४. विषयपरि० प्रसिद्धम् , तत्स्वरूपस्याध्यक्षाद्यगोचरत्वप्रतिपादनात् । 'समवायोन्येने संबध्यमानो न स्वतः संबध्यते संबध्यमानात्वाद्रूपादिवत्' इत्यनुमानविरोधाच्च । यदि चाग्निप्रदीपगङ्गोदकादीनामुष्णप्रकाशपवित्रतावत्समवायः खेपरयोः सम्बन्धहेतुः; तर्हि तदृष्टा५न्तावष्टंम्भेनैव ज्ञानं स्वपरयोः प्रकाशहेतुः किन्न स्यात् ? तथाच "ज्ञानं ज्ञानान्तरवेद्यं प्रमेयत्वात्" [ ] इति प्लवते।
यच्चोच्यते-'समवायः सम्बन्धान्तरं नापेक्षते, स्वतः सम्बन्धत्वात् ,ये तु सम्बन्धान्तरमपेक्षन्ते न ते खतः सम्बन्धाः यथा घटा
दयः, न चायंन स्वतःसम्बन्धः, तस्मात्सम्बन्धान्तरं नापेक्षते इति; १० तदपि मनोरथमात्रम् ; हेतोरसिद्धः। न हि समवायस्य स्वरूपासिद्धौ स्वतः सम्बन्धत्वं तत्र सिध्यति । संयोगेनानेकान्ताच स हि स्वतः सम्बन्धः सम्बन्धान्तरं चापेक्षते । न हि स्वतोऽसम्बन्ध खभावत्वे संयोगादेः परतस्तद्युक्तम् ; अतिप्रसङ्गात् । घंटादीनां च
सम्बन्धित्वान्न परतोपि सम्बन्धत्वम् । इत्ययुक्तमुक्तम्-'न ते १५ स्वतःसम्बन्धाः' इति । तन्नास्य स्वतः सम्बन्धो युक्तः।
परतश्चेत्किं संयोगात्, समवायान्तरात्, विशेषणभावात्, अदृष्टाद्वा ? न तावत्संयोगात्। तस्य गुणत्वेन द्रव्याश्रयत्वात्, समवायस्य चाद्रव्यत्वात् । नापि समवायान्तरात् । तस्यैकरूप
तयाभ्युपगौत्, “तत्त्वं भावन" व्याख्यातम् [वैशे० सू० २०७१२।२८] इत्यभिधानात् ।
नापि विशेषणभावात् ; सम्वन्धान्तराँभिसम्बद्धार्थेष्वेवास्य प्रवृ. त्तिप्रतीतेर्दण्डविशिष्टः पुरुष इत्यादिवत्, अन्यथा सर्व सर्वस्य विशेषणं विशेष्यं च स्यात् । समवायादिसम्बन्धानर्थक्यं च, तद.
भावेपि गुणगुण्यादिभावोपपत्तेः । समवायस्य समवायिविशे. २५षणतानुपपत्तिश्च, अत्यन्तमर्थान्तरत्वेनातद्धर्मत्वादाकाशवत् । न खलु 'संयुक्ताविमौ' इत्यत्र संयोगिधर्मतामन्तरेण संयोगस्य
१ तस्य-समवायस्य । २ तन्तुपटादिलक्षणसंबन्धिना सह । ३ समवायसमवायिनोः । ४ अवष्टम्भोऽवलम्बः साहाय्यं वा। ५ स्वतःसंबन्धत्वादिति हेतोः। ६ न केवलं हेतोरसिद्धेरेव । ७ आदिना संयुक्तसमवायादिसंबन्धग्रहणम् । ८ समवायात् । ९ तत्-संबन्धत्वम् । १० दृष्टान्तभूतानाम् । ११ संयोगात्। १२ 'समवायस्य संबन्धः स्वसमवायिषु' इति शेषः। १३ समवायस्य। १४ परेण । १५ एकत्वम् । १६ सत्तया । १७ संबन्धान्तरं तादात्म्यसंयोगादि । समवायसमवायिलक्षणेष्वित्यपरा टिप्पणी। १८ विशेषणभावस्य । १९ अतद्धर्मत्वं च स्यात्समवायिनां विशेषणत्वं च
स्यादिति सन्दिग्धानकान्तिकत्वपरिहारार्थमिदमाह। Jain Educationa International For Personal and Private Use Only
www.jainelibrary.org