________________
सू० ४।१०] समवायपदार्थविचारः
६१९ किञ्च, असौ सतां सत्तासमवायः, असतां वा स्यात् ? न तावदसताम् ; व्योमोत्पलादीनामपि तत्प्रसङ्गात् । अथात्यन्तास. त्त्वात्तेषां न तत्प्रसङ्गः; गुणगुण्यादीनामत्यन्तासत्त्वाभावः कुतः? समवायाञ्चेत्, इतरेतराश्रयः-सिद्धे हि समवाये तेषामत्यन्तासस्वाभावः, तदभावाच्च समवायः । नापि सताम् ; समवायात्पूर्व ५ हि सत्त्वं तेषां समवायान्तरात्, स्वतो वा? समवायान्तराञ्चेत्, न अस्यैकत्वाभ्युपगमात् । अनेकत्वेपि अतोपि पूर्व(व)समवा. यन्तरात्तेषा सत्त्वमित्यनवस्था । स्वतः सत्त्वाभ्युपगमे तु समवायपरिकल्पनानर्थक्यम् । ननु न समवायात् पूर्व तेषां सत्त्वमसत्त्वं वा, सत्तासमवायात्सत्त्वाभ्युपगमात्; इत्यप्यसङ्गतम्:१० परस्परव्यवच्छेदरूपाणामेकनिषेधस्यापरविधाननान्तरीयकत्वेनोभयनिषेधविरोधात् । न चानुपकारिणोः सत्तासमवाययोः परस्परसम्बन्धो युक्तोतिप्रसङ्गात् ।
अव्यापि चेदं सत्त्वलक्षणम् सत्तासमवायान्त्यविशेषेषु तस्यासंभवात् । “त्रिषु पदार्थेषु सत्करी संत्ता"[ ] इत्यभिधा-१५ नात् । अतिव्यापि चाकाशकुशेशयादिष्वपि भावात् । न च तेषामसत्त्वान्न सत्तासमवायः; अन्योन्याश्रयानुषङ्गात्-असत्त्वे हि तेषां सत्तासमवायविरहः, तद्विरहाच्चासत्त्वमिति । न च सत्तासमवायः सत्त्वलक्षणं युक्तमर्थान्तरत्वात् । न ह्यान्तरमर्थान्तरस्य स्वरूपम् ; अतिप्रसंङ्गादर्थान्तरत्वहानिप्रसङ्गाच्च ।
किञ्च, सत्तासमवायात्पदार्थानां सत्त्वे तयोः कुतः सत्त्वम् ? असत्संवैधात्सत्त्वे अतिप्रसङ्गात् । सत्तासमवायान्तराच्चेत् । अनवस्था । स्वतश्चेत्, पदार्थानामपि तत्स्वत एवास्तु किं सत्ता. समवायेन?
यदप्यभिहितम्-अग्नेरुष्णतावदित्यादिः तदप्यभिधानमात्रम् ;२५ यतः प्रत्यक्षसिद्ध पदार्थस्वभावे स्वभावैरुत्तरं वक्तुं युक्तम् । न च 'समवायस्य स्वतः सम्बन्धत्वं संयोगादीनां तु तस्मात्' इत्यध्यक्ष
१ व्योमोत्पलादीनां सर्वथा असत्त्वे प्रतिपादिते आचार्याः प्राहुः। २ अस्य= समवायस्य । ३ अतोपि-विवक्षितसमवायान्तरादपि । ४ सताम् । ५ व्यवच्छेदो हि परस्पर विरुद्धधर्मयोगिनामेव स्यात् । ६ परस्परम् । ७ द्वन्द्वोत्र ज्ञेयः। ८ तेषां स्वरूपेणैव सत्त्वस्वभावत्वात् । ९ तेषां हि सत्तासंबन्धादेव सत्त्वं स्वयं त्वसत्त्वमेवेति भावः। १० घटस्य पटवरूपत्वप्रसङ्गात् । ११ सयां सत्तासमवायाभ्यां संबन्धः सत्संबन्धः, न सत्संबन्धोऽसत्संबन्धः । १२ गगनकुसुमादिषु । १३ अपरसत्तासमवायाभ्यां संबन्धाभावेपीत्यर्थः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org