SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्त्तण्डे [ ४. विषयपरि० भिधानयोजनारहितं प्रतिभाति संकेतवशाचैतत्सर्वं ज्ञानाद्वयादि । स्वशास्त्रजनितसंस्कारवशाद्विज्ञानाद्वयादिप्रतिभासोऽप्रइत्यन्यत्रापि समानम् । न हि तत्रापि खशास्त्र संस्काराहते 'समवायी' इति ज्ञानमनुभवत्यन्यजनः । न चैतच्छास्त्रमप्रमाण५ मेतच्च प्रमाणमिति प्रेक्षावतां वक्तुं युक्तमविशेषात् । माणम् ; समवाय इति प्रत्ययेनानैकान्तिकञ्चार्य हेतुः स हि विशेष्यप्रत्ययो न च विशेषणमपेक्षते । अथात्र सँमवायिनो विशेषणम् । नन्वस्तु तेषां विशेषणत्वं यत्र 'समवायिनां समवायः' इति प्रतिभासते यत्र तु 'समवायः' इत्येतावाननुभवस्तत्र किं विशेषणमिति १० चिन्त्यताम् ? अथ विशेषणाभावान्नेदं विशेष्यज्ञानम्ः तर्ह्यन्यस्य विशेष्यस्यात्रा संभवाद्विशेषणज्ञानमपि तन्मा भूत् । न चैतद्युक्तम् । कथं चैवं 'पटः' इति प्रत्ययो विशेष्यः स्यात् विशेषणाभावाविशेषात् ? अथात्र पटत्वं विशेषणम्, तर्हि 'समवायः' इति प्रत्यये किं विशेषणम् ? न तावत्समवायत्वम् ; अनभ्युपगमात् । १५ अथ येन सता विशिष्टः प्रत्ययो जायते तद्विशेषणम्, तत्र 'समवायः' इति प्रत्ययोत्पादे समवायत्वसामान्यस्यानभ्युपगमात्, देव्यादेश्चाप्रतिभासनादद्देस्यैव विशेषणत्वमिति; तन्न; यतः किं येन सता विशेष्यज्ञानमुत्पद्यते तद्विशेषणम्, किं वा यस्यानुरागः प्रतिर्भीसते तदिति ? प्रथमपक्षे चक्षुरालोकादेरपि २० तदनिवार्यम् । अथ यस्यानुरागस्तद्विशेषणम्, न तर्हि 'दण्डी' इति प्रत्यये दण्डवद्दण्डशब्द लेखेन 'समवायः' इति प्रत्ययेष्यदृष्टस्य तच्छब्दयोजनाद्वारेणानुरागं जनो मन्यते । तथाप्यदृष्टस्य विशेषणत्वकल्पनायाम् 'दण्डी' इत्यादिप्रत्ययेप्यस्यैव तत्कल्पनास्तु किं व्यादेर्विशेषणभावकल्पनया ? ६१८ २५ यच्चोक्तम् - स्वकारणसत्तासंबन्ध एवात्मलाभ इत्यादिः तन्न; आत्मलाभस्य स्वकारणसत्तासमवायपर्यायतायां नित्यत्वप्रसङ्गात्, तन्नित्यत्वे च कार्यस्याविनाशित्वं स्यात् । १ अभिधानः शब्दः । २ समवाये । ३ वैशेषिकः । ४ विशेषण पूर्व कलक्षण साध्याभावात् । ५ विशेष्यप्रत्ययत्वादिति । ६ तन्तुपदादयः । ७ समवायिभ्यां भिन्नस्य । ८ समवायिप्रकरणे । ९ उभयं मा भूदिति । १० समवायः प्रतिभासते इति प्रत्यये विशेषणभूतस्य तन्तुपटादेः । ११ अदर्शनीभूतस्य (पुण्य-पापरूपस्य ) । १२ इदं विशेष्यमिति ज्ञानम् । १३ संबन्धः । १४ विशेष्ये । १५ दण्डीति प्रत्यये दण्डशब्दोखेन दण्डस्य यथानुरागं मन्यते जनो न तथा प्रकृते ऽदृष्टशब्दयोजनाद्वारेणादृष्टस्यानुरागमिति संबन्धः । १६ अदृष्टानुरागाभ्युपगमाभावेपि । १७ दण्डादेस्तन्तुपडादेव । १८ कार्यरूपस्य वस्तुनः स्वरूपोद्भवः । १९ सत्तासमवाययोर्नित्यत्वात् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy