________________
सू० ४।१०] समवायपदार्थविचारः
६१७ भिर्व्यभिचारः; तेषामपि कथंचिन्नानात्वसाधनात् । ततोऽयुक्तमुक्तम्- 'इहेति प्रत्ययाविशेषाद्विशेषलिङ्गाभावाच्चैकः समवायः' इति । विशेषलिङ्गाभावस्यानन्तरप्रतिपादितलिङ्गसद्भावतोऽसि. द्धत्वात् । इहेति प्रत्ययाविशेषोप्यसिद्धः; 'इहात्मनि ज्ञानमिह पटे रूपादिकम्' इतीहेति प्रत्ययस्य विशेषात् । विशेषणानुरागो५ हि प्रत्ययस्य विशिष्टत्वम् । न चानुगतप्रत्ययप्रतीतितः समवायस्यैकत्वं सिध्यति; गोत्वादिसामान्येषु षट्पदार्थेषु चानुगतस्यैकत्वस्याभावेप्यनुगतप्रत्ययप्रतीतेः।
'सत्तावत्' इति दृष्टान्तोपि साध्यसाधनविकलः; सर्वथैकत्वस्य सत्प्रत्ययाविशेषस्य चासिद्धत्वात् । सर्वथैकत्वे हि सत्तायाः १० 'पटः सन्' इति प्रत्ययोत्पत्तौ सर्वथा सत्तायाः प्रतीत्यनुषङ्गात् क्वचित् सत्तासंदेहो न स्यात् । तस्याः सर्वथा प्रतीतावपि तद्विशेष्यार्थानामप्रतीतेः क्वचित्सत्तासंदेहे पटविशेषणत्वं तस्या अन्यदन्यदर्थान्तरविशेषणत्वम् इत्यायातमनेकरूपत्वं तस्याः। ___ यदप्युक्तम्-समवायीनि द्रव्याणीत्यादिप्रत्ययो विशेषणपूर्वको १५ विशेष्यप्रत्ययत्वादित्यादि, तदप्यनल्पतमोविलसितम्। हेतो. विशेषणासिद्धत्वात् । तदसिद्धत्वं च समायानुरागस्याप्रतीतेः। प्रतीतौ वानुमानानर्थक्यम् । को हि नाम समवायानुरक्तं द्रव्यादिकं मन्यमानः समवायं न मन्येत? तदनुरागाभावेपि तेनास्य विशेष्यत्वे खरशृङ्गेणापि तत्स्यादविशेषात् । ननु सम्बन्धानुरक्तं २० द्रव्यादिकं प्रतिभाति । सत्यं प्रतिभाति, समवाये तु किमायातम् ? न च स एव स इति वाच्यम्; तादात्म्यादपि तत्संभवात् संयोगवत् । तथाप्यत्रैवाग्रह खरविषाणेप्याग्रहः किन्न स्यात् ? 'खरविषाणी पट इति प्रत्ययो विशेषणपूर्वको विशेष्यप्रत्ययत्वात् इति । अत्राश्रयासिद्धतान्यत्रापि समाना । न खलु 'समवायी २५ पटः' इति प्रत्ययः केनाप्यनुभूयते ।
अथाप्रतिपन्नसमयस्य संश्लेषमात्रं प्रतिपन्नसमयस्य तु 'समवायीं' इति प्रतिभातीति चेत्, न; ज्ञानाद्वयादेः प्रसङ्गात् । शक्यते हि तत्राप्येवं वक्तुम्-अप्रतिपन्नसमयस्य वस्तुमात्रम. १ प्रदेशमेदापेक्षया। २ समवायस्य नानात्वं सिद्धं यतः। ३ भिन्नभिन्नविशेषणसंबन्धः । ४ इहेतिप्रत्ययस्य । ५ भिन्नत्वम् । ६ गोत्वमपि सामान्यं घटत्वमपि सामान्यमिति, अयमपि पदार्थोयमपि पदार्थ इत्येवं पकारेण । ७ दण्डाभावे दण्डीति प्रत्ययो यथा न स्यात्तथा समवायलक्षणविशेषणाभावेपि विशेष्यप्रत्ययो न स्यादिति भावः। ८ समवाय एवानुरागः संबन्धस्तस्य । ९ समवायेन। १० द्रव्यादेः । ११ तस्य अनुरागस्य । १२ आदिना ब्रह्माद्वैतादेश्व।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org