________________
६१६
प्रमेयकमलमार्तण्डे [४. विषयपरि० सति प्रतीयते । न चैतत् समवाये संभवति; प्रत्यक्षाद्यगोचरत्वेनास्य प्रतिपादितत्वात् । न चातद्विषयं बाधकमतिप्रसङ्गात् ।
यत्पुनरुक्तम्-न चास्य संयोगवन्नानात्वमित्यादि; तदप्यसमीचीनम्। तदेकत्वस्यानुमानबाधितत्वात् । तथाहि-अनेकः सम५वायो विभिन्नदेशकालाकारार्थेषु सम्बन्धबुद्धिहेतुत्वात् । यो य इत्थंभूतःस सोनेकः यथा संयोगः, तथा च समवायः, तस्मादनेक इति । प्रसिद्धो हि दण्डपुरुषसंयोगात् कटकुड्यादिसंयोगस्य भेदः। "निविडः संयोगः शिथिलः संयोगः' इति प्रत्ययभेदात्संयोगस्य
भेदाभ्युपगमे 'नित्यं समवायः कदाचित्समवायः' इति प्रत्यय. १० भेदात्समवायस्यापि मेदोस्तु । समवायिनोनित्यकादाचित्कत्वाभ्यां समवाये तत्प्रत्ययोत्पत्तौ संयोगिनोर्निबिडत्वशिथिलत्वाभ्यां संयोगे तथा प्रत्ययोत्पत्तिः स्यान पुनः संयोगस्य निवि. डत्वादिखभावभेदात् , इत्येकं संधित्सोरन्यत् प्रच्यवते।
तथा, 'नाना समवायोऽयुतसिद्धावयविद्रव्याश्रितत्वात् संख्या१५वत्' इत्यतोप्यस्यानेकत्वसिद्धिः। न चेदमसिद्धम् ; अनाश्रितत्वे हि
समवायस्य "षण्णामाश्रितत्वमन्यत्र नित्यद्रव्येभ्य" [प्रश० भा० पृ१६] इत्यस्य विरोधः। अथ न परमार्थतः समवायस्याश्रितत्वं नाम धर्मो येनानेकत्वं स्यात् किन्तूपचारात् । निमित्तं तूपचारस्य समवायिषु सत्सु समवायज्ञोनम् । तत्त्वतो ह्याश्रितत्वेस्य स्वाश्र२० यविनाशे विनाशप्रसङ्गो गुणादिवत्, इत्यप्ययुक्तम् ; विशेषपरित्यागेनाश्रितत्वसामान्यस्य हेतुत्वात् , दिगादीनामाश्रितत्वापत्तेश्च, मूर्तद्रव्येषूपलब्धिलक्षणप्राप्तेषु दिग्लिङ्गस्य 'इदमतः पूर्वेण' इत्यादिप्रत्ययस्य काललिङ्गस्य च परत्वापरत्वादिप्रत्ययस्य सद्भावात् ।
तथा च 'अन्यत्र नित्यद्रव्येभ्यः' इति विरुध्यते । सामान्यस्या२५ नाश्रितत्वप्रसङ्गश्च; आश्रयविनाशेप्यविनाशात् समवायवत् ।
अस्तु वानाश्रितत्वं समवायस्य, तथाप्यनेकत्वमनिवार्यम्। तथाहि-अनेकः समवायोऽनाश्रितत्वात्परमाणुवत् । नाकाशादि
१ गगनकुसुमस्यापि बाधकत्वप्रसङ्गात् । २ संबन्ध इति बुद्धिः संबन्धबुद्धिः, तस्याः । ३ दृष्टान्तं समर्थयति। ४ परमाणुतद्रूपयोः । ५ तन्तुपटयोः। ६ सम• वायस्य । ७ वैशेषिकस्य । ८ द्रव्यगुणकर्मसामान्यविशेषसमवायानाम् । ९ ग्रन्थस्य । १० स्वरूपम् । ११ तन्तुपटादिषु। १२ समवाय इति ज्ञानम्। १३ स्वाश्रयादभिन्नत्वात् । १४ गुणो गुण्याश्रितः, अवयवोवयव्याश्रित इति विशेषपरित्यागेन । १५ आश्रयविनाशेप्याश्रितत्वसामान्यस्याविनाश एव तस्य नित्यत्वात् । १६ दिगादीनामाश्रितत्वे च सति । १७ नित्यद्रव्याणामाश्रितत्वात् ।
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only