________________
सू० ६।२५-२९] हेत्वाभासविचारः
६३५ न ह्यस्याविर्भावादन्यत् कारणव्यापारादसतो रूपस्यात्मलाभलक्षणं कृतकत्वं प्रसिद्धम् ।
सन्दिग्धविशेष्यादयोप्यविद्यमान निश्चयतालक्षणातिकमाभावानार्थान्तरम् । तत्र सन्दिग्धविशेष्यासिद्धो यथा-अद्यापि रागादियुक्तः कपिलैः पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् । सन्दि-५ ग्धविशेषणासिद्धो यथा-अद्यापि रागादियुक्तः कपिलः सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वात् । एते एवासिद्धभेदाः केचिदन्यतरासिद्धाः केचिदुर्भयासिद्धाः प्रतिपत्तव्याः।
ननु नास्त्यन्यतरासिद्धो हेत्वाभांसः; तथाहि-परेणासिद्ध इत्युद्भाविते यदि वादी तत्साधकं प्रमाणं न प्रतिपादयति, तदा प्रमा-१० णाभासवदुभयोरसिद्धः। अथ प्रमाणं प्रतिपादयेत् तर्हि प्रमाणस्यापक्षपातित्वादुभयोरप्यसौ सिद्धः। अन्यथा साध्यमप्यन्यतरासिद्धं न कदाचित्सिद्धयेदिति व्यर्थः प्रमाणोपन्यासः स्यात्। इत्यप्यसमीचीनम् ; यतो वादिना प्रतिवादिना वा सभ्यसमक्ष खोपन्यस्तो हेतुः प्रमाणतो यावन्न परं प्रति साध्यते तावत्तं १५ प्रत्यस्य प्रसिद्धरभावात्कथं नान्यतरासिद्धता? नन्वेवमप्यस्यासिद्धत्वं गौणमेव स्यादिति चेत् । एवमेतत् , प्रमाणतो हि सिद्धेरभा. वादसिद्धोसौ न तु स्वरूपतः । न खलु रत्नादिपदार्थस्तत्त्वतोऽप्र. तीयमानस्तावत्कालं मुख्यतस्तदाभासो भवतीति।
अथेदानी विरुद्धहेत्वाभासस्य विपरीतस्येत्यादिना वरूपं २० दर्शयतिविपरीतनिश्चिताविनाभावो विरुद्धः अपरि
णामी शब्दः कृतकत्वात् ॥ २९ ॥ साध्यस्वरूपाद्विपरीतेन प्रत्यनीकेन निश्चितोऽविनाभावो यस्यासौ विरुद्धः। यथाऽपरिणामी शब्दः कृतकत्वादिति । कृत-२५ कत्वं हि पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनैवावि.
१ यतस्तस्य सर्वस्य वस्तुनः सद्भावः सदेति वचः। २ सांख्यगुरुः। ३ सांख्येनोक्तं भवतां जैनानां विशेष्यासिद्धो हेतुरिति भावः। ४ वादिप्रतिवादिनोमध्ये एकस्य। ५ वादिप्रतिवादिनः। ६ किन्तर्हि ? उभयासिद्ध एव। ७ प्रतिवादिना । ८ उपन्यस्तेपि निर्दुष्टे हेतुसाधके प्रमाणे यद्यसौ नोभयोः सिद्धः स्यात्तहि । .९ साध्यस्यान्यतरासिद्धत्वात् । १० यावत्प्रमाणतः सिद्धेरेवाभावस्तावत्स्वरूपतोप्यसिद्धः कुतो न स्यादित्युक्ते सत्याहू। ११ सह । १२ हेतोः। १३ एकस्वभाव्यऽक्षणि. कलक्षणो नित्यैकलक्षणः। १४ साध्य विपरीतेन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org