________________
६१२
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
इहप्रत्ययत्वस्यानुभवाभावात् , 'पटोयम्' इत्यादिरूपतया हि प्रत्ययोनुभूयते । __ अनैकान्तिकश्च; 'इह प्रागभावेऽनादित्वम् , इह प्रध्वंसाभावे प्रध्वंसाभावाभावः' इत्यबाध्यमानेहप्रत्ययस्य सन्बन्धपूर्वकत्वा. ५भावात् । न चात्र विशेषणविशेष्यभावः सम्बन्धो वाच्यः; सम्ब. न्धमन्तरेण विशेषणविशेष्यभावस्याऽसम्भवात्, अन्यथा सर्व सर्वस्य विशेषणं विशेष्यं च स्यात् । सम्बन्धे सत्येव हि द्रव्यगुणकर्मादावेकस्य विशेषणत्वमपरस्य विशेष्यत्वं दृष्टम् । तदभावेपि विशेषणविशेष्यभावकल्पनायामतिप्रसङ्गः स्यात् । १० न चौत्रादृष्टलक्षणः सम्बन्धो विशेषणविशेष्यभावनिवन्धनम्
इत्यभिधातव्यम् । षोढासम्बन्धवादित्वव्याघातानुषङ्गात् । न चास्य सम्बन्धरूपता। सम्बन्धो हि द्विष्ठो भवताभ्युपेतः। अदृष्टश्वात्मवृत्तितया प्रागभावाऽनादित्वयोरतिष्ठन्कथं द्विष्ठो भवतीति
चिन्त्यमेतत् ? यदि चात्रादृष्टः सम्बन्धः; तर्हि गुणगुण्यादयोप्यत १५ एव सम्बद्धा भविष्यन्तीत्यलं समवायादिसम्बन्धकल्पनया।
किञ्च, अतोनुमानात्सम्बन्धमानं साध्यते, तद्विशेषो वा? प्रथमपक्षे सिद्धसाध्यता, तादात्म्यलक्षणसम्बन्धस्येष्टत्वात्तन्तु. पटादीनाम् । ननु तेषां तादात्म्ये सति तन्तवः पटो वा स्यात्, तथा च सम्बन्धिनोरेकत्वे कथं सम्बन्धो नामास्य द्विष्ठत्वात् ? २० तदप्ययुक्तम् ; यो हि द्विष्ठः सम्बन्धस्तस्येत्थमभावो युक्तः, यस्तु
तत्स्वभावतालक्षणः कथं तस्याभावो युक्तः? तन्तुस्वभाव एव हि पटो नार्थान्तरम् , आतानवितानीभूततन्तुव्यतिरेकेण देशभेदा. दिना पटस्यानुपलभ्यमानत्वात् ।
अथ सम्बन्धविशेषः साध्यते; स किं संयोगः, समवायो वा ? २५ संयोगश्चेत्, अभ्युपगमवाधा। समवायश्चेत् ; दृष्टान्तस्य साध्य विकलता। ___ अथोच्यते-न संयोगः समवायो वा साध्यते किन्तु सम्बन्ध मात्रम् , तत्सिद्धौ च परिशेषात् समवायः सिध्यतीति; तदप्युक्तिमात्रम्, परिशेषन्यायेन समवायस्य सिद्धरसंभवात्, तस्यानेक- १ यतः । २ सह्यविन्ध्ययोरपि विशेषणविशेष्यभावप्रसङ्गः सम्बन्धाभावाविशेषात् । ३ प्रागभावे । ४ अप्रवर्तमानः सन् । ५ इह तन्तुषु पट इत्यादीहप्रत्ययः सम्बन्ध. कार्योऽबाध्यमानेहप्रत्ययत्वादित्यतः । ६ जैनानाम् । ७ सम्बन्धिनोरेकत्वप्रकारेण । ८ तन्तव एव स्वभावो यस्य पटस्यासौ तथोक्तस्तस्य भावस्तत्स्वभावता सैव लक्षणं यस्य सम्बन्धस्येति बसः। ९ इह कुण्डे दधीत्यादिप्रत्ययवदित्यस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org