________________
सू० ४।१०] समवायपदार्थविचारः
६१३ दोषदुष्टत्वेन प्रतिपादितत्वात् । यदि हि संबन्धांन्तरमनेकदोषदुष्टं समवायस्तु निर्दोषः स्यात्, तदासौ तन्यायात् सिध्येत् । न चैवमित्युक्तम् । ___ कश्चायं परिशेषो नाम ? प्रेसक्तप्रतिषेधे विशि(धे शिष्यमाणसंप्रत्ययहेतुः स इति चेत्, स किं प्रमाणम् , अप्रमाणं वा? न५ तावदप्रमाणमभिप्रेतसिद्धौ समर्थम्; अतिप्रसङ्गात् । प्रमाणं चेतिक प्रत्यक्षम् , अनुमानं वा? न तावत्प्रत्यक्षम् । तस्य प्रसक्तप्रतिषेध. द्वारेणाभिप्रेतसिद्धावसमर्थत्वात् । अथ केवलव्यतिरेक्यनुमानं परिशेषः, तर्हि प्रकृतानुमानोपन्यासवैयर्थ्यम् , तस्योपन्यासेपि परिशेषमन्तरेणाभिप्रेतसिद्धेरभावात् । परिशेषस्तु प्रमाणान्तर-१० मन्तरेणापि तत्सिद्धौ समर्थ इति स एवोच्यताम् , न चासावुक्तः, तत् कथं समवायः सिध्येत् ?
ननु चेहप्रत्ययस्य समवायाहेतुकत्वे निर्हेतुकत्वप्रसङ्गात् कादाचित्कत्वविरोधः; तदसत्; तादात्म्यहेतुकतयास्यं प्रतिपादितत्वात्। महेश्वरहेतुकत्वाद्वा कादाचित्कत्वाविरोधः। तस्य तदहेतु-१५ कत्वे वा तेनैव कार्यत्वादिहेतोर्व्यभिचारः। ननु महेश्वरोऽसम्बन्ध त्वात्कथं सम्बन्धबुद्धेः कारणमिति चेत् ? प्रभुशक्तेरचिन्त्यत्वात् । यो हीश्वरस्त्रैलोक्यकार्यकरणसमर्थः स कथं 'पटे रूपादयः' इति बुद्धिं न विदध्यात् ? प्रभुः खलु यदेवेच्छति तत्करोति, अन्यथा प्रभुत्वमेवास्य हीयते । नच 'इह कुण्डे दधि' इत्यादिप्रत्यये २० सम्बन्धपूर्वकत्वोपलम्भादत्रापि तत्पूर्वकत्वस्यैव सिद्धिः; तंत्रापी. श्वरहेतुकत्वं कार्यस्येच्छतेस्तच्चोद्यानिवृत्तः । संयोगश्चार्थान्तर. भूतस्तनिमित्तत्वेनात्राप्यसिद्धः; तस्यासिद्धस्वरूपत्वात् ।
"ननु संयोगो नामार्थान्तरं न स्यात्तदा क्षेत्रे बीजादयो निर्वि शिष्टत्वात् सर्वदैवाङ्कुरादिकार्य कुर्युः, न चैवम् । तस्मात्सर्वदा२५
१ संयोगतादात्म्यादिरूपम् । २ प्रसक्तः प्रसङ्गप्राप्तः सर्वजनप्रसिद्धो वा संयोगतादात्म्यरूपः, तस्य प्रतिषेधे सति विशिष्यमाणः समवायरूपस्तस्य सम्यक् प्रतीतिहेतुरित्यर्थः। ३ परिशेषः । ४ प्रत्यक्षस्य सन्निहितरूपादिष्वेव प्रवर्तमानत्वात् । ५ परिशेषोपि प्रमाणान्तरमन्तरेण तत्सिद्धावसमर्थो भविष्यतीत्युक्ते सत्याह । ६,७ इहेदमिति प्रत्ययस्य । ८ इहेदमिति प्रत्ययस्य । ९ इह तन्तुषु पट इत्यादीहप्रत्ययेपि । १० इह कुण्डे दधीत्यादिप्रत्यये। ११ दधीत्यादिप्रत्ययस्य । १२ वैशेषिकस्य । १३ तच्चो हि महेश्वरहेतुकत्वाद्वा कादाचित्कत्वाविरोध इत्यादि । १४ अर्थों संयोगक्रियाधारौ ताभ्यामन्यः संयोग इत्यर्थः । १५ इहेति प्रत्ययनिमित्तत्वेन। १६ इह कुण्डेपि । १७ संयोगे सत्यप्यपूर्वसामोद्भवाभावादित्यर्थः । १८ गृहे स्थापिताः सन्तोपीत्यर्थः ।
प्र. क. मा० ५२
Lain Educationa International
For Personal and Private Use Only
www.jainelibrary.org