SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ सू० ४।१० ] समवायपदार्थविचारः ६११ त्वादेः सम्बन्धत्वानुषङ्गात् । नापि सम्बन्धबुद्ध्युत्पादकः; लोचनादेरपि तत्त्वप्रसक्तेः । नापि सम्बन्धबुद्धिविषयः सम्बन्धसम्बन्धिनोरेकज्ञानविषयत्वे सम्बन्धिनोपि तद्रूपतानुषङ्गात् । नं च प्रतिविषयं ज्ञानभेदः; मेचकशानाभावप्रसङ्गात् । अथेहबुद्धौ समवायः प्रतिभासते; नै; इहबुद्धेरधिकरणाभ्य- ५ वायरूपत्वात् । न चान्यस्मिन्नाकारे प्रतीयमानेऽन्याकारोर्थः कल्पयितुं युक्तोतिप्रसङ्गात् । अथ समवायबुद्ध्यासौ प्रतीयते; तन्नः समवायबुद्धेरसम्भवात् । नहि 'एते तन्तवः, अयं पटः, अयं च समवायः' इत्यन्योन्यविविक्तं त्रितयं बहिर्ग्राह्याकारतया कस्याञ्चित्प्रतीतौ प्रतीयते तथानु- १० भवाभावात् । सर्वसमवाय्यनुगतैकस्वभावो ह्यसौ तत्र प्रतिभासेत, तद्वयावृत्तस्वभावो वा ? न तावत्तद्व्यावृत्तस्वभावः; सर्वतो व्यावृत्तस्वभावस्यान्यासम्बन्धित्वेन गगनाम्भोजवत्समवायत्वानुपपत्तेः । नापि तदनुगतैकस्वभावः सामान्यादेरपि समवायत्वानुषङ्गात् । १५ न चाखिल समवाय्य ऽप्रतिभासे तदनुगतस्वभावतयासौ प्रत्यक्षेण प्रत्येतुं शक्यः । अथानुगतव्यावृत्तरूपव्यतिरेकेण सम्बन्धरूपतयासौ प्रतीयते; तन्नः सम्बन्धरूपतायाः प्रागेव कृतोत्तरत्वात् । यदप्युक्तम् -' इह तन्तुषु पटः' इत्यादीहप्रत्ययः सम्बन्धकार्यो - ऽबाध्यमानेहप्रत्ययत्वादिह कुण्डे दधीत्यादिप्रत्ययवदित्यनुमाना- २० च्चासौ प्रतीयते' इत्यादिः तदप्यसमीक्षिताभिधानम्; हेतोराश्रयासिद्धत्वात् । तदसिद्धत्वं च 'इह तन्तुषु पटः' इत्यादिप्रत्ययस्य धर्मिणोऽसिद्धेः । अप्रसिद्धविशेषणश्चायं हेतुः ; 'पटे तन्तवो वृक्षे शाखाः' इत्यादिरूपतया प्रतीयमानप्रत्ययेन 'इह तन्तुषु पटः' इति प्रत्ययस्य बाध्यमानत्वात् । स्वरूपासिद्धश्चायम्; तन्तुपटप्रत्यये २५ १० १ आदिपदेन प्रकाशादेश्च, लोचनादिरपि वस्तुषु सम्बन्धबुद्धिं जनयति । २ प्रति - विषयं ज्ञानभेदात्कथं सम्बन्धिनोरेकशानविषयत्वं यतः सम्बन्धिनोरपि सम्बन्धरूपता स्यादित्याशङ्कायामाह । ३ इति चेदिति शेषः । ४ समवायस्याधाराधेयभावलक्षणसम्बन्धाकारोल्लेखित्वात्समवाय इति न घटते । ५ इहेति बुद्धेरपि सम्बन्धप्रत्ययत्वं कुतो न स्यादित्युक्ते सत्याह । ६ अधिकरणलक्षणेर्थे । ७ सम्बन्धलक्षणः । ८ घटप्रतिभासे पटप्रतिभासप्रसङ्गात् । ९ कोयं सम्बन्धो नाम ? किं सम्बन्धत्वजातियुक्तः इत्यादिरीत्या | १० प्रतिवादिनं प्रति । ११ अवयविनि । १२ इह तन्तुषु पट इति अवयचेष्ववयविनो वृत्तिद्वारेण प्रत्ययोत्पत्तिर्यथा तथेह पटे तन्तवो वृक्षे शाखा इत्यवयविश्ववयवानां वृत्तिद्वारेणापि प्रत्ययोत्पत्तिलोकप्रसिद्धैव यतः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy