________________
६१०
प्रमेयकमलमार्चण्डे
[४. विषयपरि०
न चातो लक्षणात्समवायः सिद्ध्यति व्यभिचारात् । तथाहि-नियमेनायुतसिद्धसम्बन्धत्वमाधाराधेयभूतसम्बन्धत्वं च 'आकाशे वाच्ये वाचकस्तच्छब्दः' इति वाच्यवाचकभावे 'आत्मनि विषय. भूते अहमिति ज्ञानं विषयि' इति विषयविषयिभावे च विद्यते ५इति । ननु सर्वस्य वाच्यवाचकवर्गस्य विषयविषयिवर्गस्य च नियमेनायुतसिद्धसम्बन्धत्वासम्भवो युतसिद्धेष्वप्यस्य सम्भवाटतच्छब्दज्ञानवत्, अतो न व्यभिचारः, इत्यप्यसारम्। वर्गापेक्षयापि लक्षणस्य विपक्षकदेशवृत्तळभिचारित्वात् । इष्टं च
विपक्षकदेशाव्यावृत्तस्य सर्वैरप्यनैकान्तिकत्वम् । १० यच्चोक्तम्-तन्तुपटादयः संयोगिनो न भवन्तीत्यादिः तत्सत्यम् । तत्र तादात्म्योपगमात् ।
यत्तूक्तम्-प्रत्यक्षत एव समवायः प्रतीयत इत्यादि तदयुक्तम् । असाधारणस्वरूपत्वे हि सिद्ध सिध्येदर्थानां प्रत्यक्षता पृथुबुध्नोदराद्याकारघटादिवत् । न चास्य तत्सिद्धम् । तद्धि किमयुतसिद्ध५सम्बन्धत्वम् , सम्बन्धमात्रं वा ? न तावदयुतसिद्धसम्बन्धत्वम्। सर्वैरप्रतीयमानत्वात् । यत्पुनर्यस्य स्वरूपं तत्तेनैव स्वरूपेण सर्वस्यापि प्रतिभासते यथा पृथुबुध्नोदराद्याकारतया घट इति । न चैकस्य सामान्यात्मकं स्वरूपं युक्तम् । समानानामभावे सामा. न्याभावाद्गगने गगनत्ववत् । नापि सम्बन्धमात्रं समवायस्यासा. २० धारणं स्वरूपम् ; संयोगादावपि सम्भवात्।
किञ्च, तद्रूपतयासौ सम्बन्धबुद्धौ प्रतिभासेत, इहेति प्रत्यये वा, समवाय इत्यनुभवे वा? यदि सम्बन्धबुद्धौ, कोयं सम्बन्धो नाम-किं सम्बन्धत्वजातियुक्तः सम्बन्धः, अनेकोपादानजनितो
वा, अनेकाश्रितो वा, सम्बन्धबुद्ध्युत्पादको वा, सम्बन्धबुद्धिवि. २५षयो वा? न तावत्सम्बन्धत्वजातियुक्तः; समवायस्यासम्बन्धत्व. प्रसङ्गात् । द्रव्यादित्रयान्यतमरूपत्वाभावेन समवायान्तरासत्त्वेन चात्र सम्बन्धत्वजातेरप्रवर्त्तनात् । अथ संयोगवदनेकोपादानजनितः; तर्हि घटादेरपि सम्बन्धत्वप्रसङ्गः । नाप्यनेकाश्रितः, घट
१ विपक्षे । २ शब्दश्च ज्ञानं च शब्दज्ञाने, तस्य घटस्य शब्दज्ञाने तच्छन्दशाने इति द्वन्द्वः । ३ वाच्यवाचकभावविषयविषयिभावसमूहे विपक्षे नास्ति तथापि तस्यैकदेशवृत्तित्वादनैकान्तिकः । ४ असाधारणस्वरूपम्। ५ समवायस्य । ६ समवायेन सह समानानां वस्तूनाम् । ७ तस्यैकत्वात्सामान्यस्यानेकवृत्तित्वात् । ८ अर्य सम्बन्ध इति ज्ञाने । ९ समवायस्य । १० सम्बन्धत्वजातेवृत्त्यर्थ समवाये। ११ समवायान्तरासस्वं च समवायस्यैकत्वादवगन्तव्यम् । १२ अनेकोपादानजनितत्वाविशेषात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org