________________
सू० ४।१०] समवायपदार्थविचारः
६०९ अत्र प्रतिविधीयते । यत्तावदुक्तमयुतसिद्धेत्यादिः तत्रेदमयुतसिद्धत्वं शास्त्रीयम्, लौकिकं वा? तत्राद्यः पक्षोऽयुक्तः, तन्तुप. टादीनां शास्त्रीयायुतसिद्धत्वस्यासम्भवात् । वैशेषिकशास्त्रे हि प्रसिद्धम्-अपृथगाश्रयवृत्तित्वमयुतसिद्धत्वम्, तच्चेह नास्त्येव, 'तन्तूनां स्वावयवांशुषु वृत्तेः पटस्य च तन्तुषु' इति पृथगाश्रय-५ वृत्तित्वसिद्धरपृथगाश्रयवृत्तित्वमसदेव । एवं गुणकर्मसामान्यानामप्यपृथगाश्रयवृत्तित्वाभावः प्रतिपत्तव्यः। लोकप्रसिद्धैकभाजनवृत्तिरूपं त्वयुतसिद्धत्वम् दुग्धाम्भसोर्युतसिद्धयोरप्यस्तीति ।
ननु यथा कुण्डध्यवयवाख्यौ पृथग्भूतावाश्रयो तयोश्च कुण्डस्य दध्नश्च वृत्तिन तथात्रं चत्वारोर्थाः प्रतीयन्ते-'द्वावाश्रयो १० पृथग्भूतौ द्वौ चाँश्रयिणौ, तन्तोरेव स्वावयवापेक्षयाश्रयित्वात् पटापेक्षया चाश्रयत्वात्रयाणामेवार्थानां प्रसिद्धः, 'पृथगाश्रयाश्रयित्वं युतसिद्धिः' इत्यस्य युतसिद्धिलक्षणस्याभवादयुतसिद्धत्वं तेषामिति चेत् कथमेवमाकोशादीनां युतसिद्धिः स्यात् ? तेषामन्याश्रयविवेकतः पृथगाश्रयाश्रयित्वाभावात् ।
'नित्यानां च पृथग्गतिमत्त्वम्' इत्यपि तत्रासम्भाव्यम् ; न खलु विभुद्रव्यपरमाणुवद्विभुद्रव्याणामन्यतरपृथग्गतिमत्त्वं परमाणुद्ध यवदुभयपृथग्गतिमत्त्वं वा सम्भवति; अविभुत्वप्रसङ्गात् । तथैकद्रव्याश्रयाणां गुणकर्मसामान्यानां परस्परं पृथगाश्रयवृत्तेरभावादयुतसिद्धिप्रसङ्गतोऽन्योन्यं समवायः स्यात् । स च नेष्टस्तेषामा-२० श्रयाश्रयिसमवाय(यिभावा)भावात् । इतरेतराश्रयभावा( यश्चसमवाय) सिद्धौ हि पृथगाश्रयसमवायित्वलक्षणा युतसिद्धिः, तत्सिद्धौ च तनिषेधेन समवायसिद्धिरिति ।
ननु लक्षणं विद्यमानस्यार्थस्यान्यतो भेदेनावस्थापकं न तु सद्भावकारकम् , तेनायमदोषश्चेत् ; ननु ज्ञापकपक्षे सुतरामितरे-२५ तराश्रयत्वम् । तथाहि-नाऽज्ञातया युतसिध्या समवायो ज्ञातुं शक्यते, अनधिगतश्चासौ न युतसिद्धिमवस्थापयितुमुत्सहते इति ।
१ गुणादीनां गुणवदादिषु वृत्तिरेषां च स्वावयवेष्वाश्रयभूतेषु वृत्तिरिति भावः । २ अतिव्याप्तिदूषणमिदम् । ३ कुण्डं च दधि च तथोक्ते तयोरवयवौ । ४ अधिकरण. भूतयोः । ५ तन्तुपटादिषु । ६ ते के चत्वारोा इत्युक्ते सत्याह । ७ कुण्डदध्यवयवौ। ८ आश्रयौ दधिकुण्डावयवलक्षणौ विद्यते ययोर्दधिकुण्डयोस्तावाश्रयिणौ । ९ समवाये। १० ततश्च । ११ ततश्च तेषां समवायसिद्धिरिति भावः। १२ आदिना आत्मकालदिशां च। १३ विवेकः अभावः, व्यापकत्वात्तेषामेकाश्रयवृत्तेः । १४ पृथगाश्रयाअयित्वं युतसिद्धिलक्षणं नित्येषु यद्यपि नास्ति तथापि पृथग्गतिमत्त्वं भविष्यतीत्याह । १५ लक्षणम् । १६ मध्ये। १७ एकद्रव्यं विभु आत्माकाशादि । १८ बसः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org