________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० दण्डाद्युल्लेखेन 'दण्डी' इत्यादिप्रत्ययानुत्पत्तेः । दण्डादेरभिधानयोजनाभावेपि 'अनेन वस्तुना तद्वानयम्' इत्यनुरागप्रतीतिः 'संसृष्टा एते तन्तुपटादयः' इति सम्बन्धमाऽपि तुल्या। केवलं
सङ्केताभावात् 'अयं समवायः' इति व्यपदेशाभावः। प्रतिपन्नस. ५मयस्तु दण्डादेरिव समवायस्यापि विशेषणतामभिधानयोजनाद्वारेण प्रतिपद्यते।
यच्चान्यत्समवाये बाधकमुच्यते-'नानिष्पन्नयोः समवायः सम्बन्धिनोरनुत्पादे सम्बन्धाभावात् । निष्पन्नयोश्च संयोग एव । असम्बन्धे चास्य 'समवायिनोः समवायः' इति व्यपदेशा१० नुपपत्तिः । संम्बन्धे वा न स्वतोसौ; संयोगादीनामपि तथा
तत्प्रसङ्गात् । परतश्चेदनवस्था। न च गुणादीनामाधेयत्वं निष्क्रियत्वात् । गतिप्रतिबन्धकश्चाधारो जलादेर्घटादिवत् । तथा न स्वरूपसंश्लेषः समवायो यतस्तस्मिन्सत्येकत्वमेव न सम्बन्धः।
नापि पारतन्यम्; अनिष्पन्नयोराधारस्यैवासत्त्वात् । स्वतन्त्रेण १५ निष्पन्नयोश्च न पारतत्र्यम्' इत्यप्यसमीचीनम् ; यतो न निष्पन्न
योरनिष्पन्नयोर्वा समवायः, स्वकारणसत्तासम्बन्धस्यैव निष्पत्तिरूपत्वात् । न हि निष्पत्तिरन्या समवायश्चान्यो येन पौर्वापर्यम्।
एतेन 'रूपसंश्लेषः पारतव्यं वा' इत्याद्यपास्तम्। नापि समवायस्य सम्बन्धान्तरेण सम्बन्धो युक्तो येनानवस्था स्यात्, सम्ब२०न्धस्य समानलक्षणसम्बन्धेन सम्बन्धस्यान्यत्रादृष्टेः संयोगवत् ।
अग्नेरुष्णतावत्तु स्वत एवास्य सम्बन्धो युक्तः स्वत एव सम्बन्धरूपत्वात्, न संयोगादीनां तदभावात् । न होकस्य स्वभावोऽन्यस्यापि, अन्यथा स्वतोग्नेरुष्णत्वदर्शनाजलादीनामपि तत्स्यात्।
यञ्चोक्तम्-'निष्क्रियत्वात्तेषां नाधेयत्वम्' इति; तदप्यसत्; २५ संयोगिद्रव्यविलक्षणत्वागुणादीनाम्, संयोगिनी सक्रियत्वेनेव तेषां निष्क्रियत्वेप्याधाराधेयभावस्य प्रत्यक्षेण प्रतीतेश्चेति । ...
१ समवायस्यामिधानयोजनामावेपि संसृष्टा एते तन्तुपटादय इति सम्बन्धमात्रपि अनुरागप्रतीतिः । २ जैनादिना। ३ असौ समवायः सम्बन्धिनोरनिष्पन्नयोः स्यान्निष्पन्नयोवेति विकल्पद्वयं हृदि निधाय दूषयति । ४ किञ्चासौ समवायः समवायिभ्यामसम्बद्धः सम्बद्धो वेति विकल्पवयं विधाय प्रथमविकल्पे दूषणमाह । ५ सम्बद्धश्चेत्स्वतः परतो वेति विकल्पद्वयमत्रापि योज्यम् । ६ स्वरूपयोः स्वभावयोः संश्लेषः सम्बन्धः । ७ स्वकारणसत्तासम्बन्धस्यैव निष्पत्तिरूपत्वादित्यनेन ग्रन्थेन। ८ समवायिना सह । ९ अपरसमवायेन। १० संयोगिनोः संयोगस्य च समवायेन सम्बन्धसद्भावात् । ११ कथं तीस्य सम्बन्ध इत्याशङ्कायामाह। १२ संयोगस्या १३ गुणादीनाम् । १४ द्रव्याणाम् । १५ संयोगिनां सक्रियत्वादेव तेषामाधेयत्वमिति भावः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org