________________
सू० ४।१०] समवायपदार्थविचारः
न चास्य संयोगवन्नानात्वम् ; इहेति प्रत्ययाविशेषाद्विशेषलिङ्गाभावाच्च सत्प्रत्ययाविशेषाद्विशेषलिङ्गाभावाञ्च संत्तावत् । न च सम्बन्धत्वमेव विशेषलिङ्गम्। अस्यान्यथासिद्धत्वात् । न हि संयोगस्य सम्बन्धत्वेन नानात्वं साध्यतेऽपि तु प्रत्यक्षेण भिन्नाश्रयसमवेतस्य क्रमेणोत्पादोपलब्धेः । समवायस्य चानेकत्वे५ सति अनुगतप्रत्ययोत्पत्तिर्न स्यात् । संयोगे तु संयोगत्वबलानानात्वेपि स्यात् । न चैतत्समवाये सम्भवति; समवायत्वस्य समवाये समवायाभावात्, अन्यथानवस्था स्यात् । संयोगस्य गुणत्वेन द्रव्यवृत्तित्वात् , संयोगत्वं पुनः संयोगे समवेतमिति । . न चैकत्वे समवायस्य द्रव्यत्ववहुणत्वस्याप्यभिव्यञ्जकं द्रव्यं १० कुतो न भवतीति वाच्यम् ? आधारशैक्तेर्नियामकत्वात् । ट्रॅव्याणां हि द्रव्य॑त्वाधारशक्तिरेव, गुणादेस्तु गुणत्वाद्याधारशक्तिरिति । न चानुगतप्रत्ययजनकत्वेन सामान्यादस्याऽभेदः, भिन्नलक्षणयोगित्वात् ।
यद्वा, 'समवायीनि द्रव्याणि' इत्यादिप्रत्ययो विशेषणपूर्वको ३ विशेष्यप्रत्ययत्वाद्दण्डीत्यादिप्रत्ययवत्' इत्यतः समवायसिद्धिः । न चान्येषामंत्रानुरौंगः सम्भवति । किन्तर्हि ? समवायस्यैव । अतः स एव विशेषणम् । अप्रतिपन्नसमयस्य 'समवायी' इतिप्रतिभासाभावादस्याऽविशेषणत्वम् , दण्डादावपि समानं तस्य
१ सत्प्रत्ययाविशेषाद्विशेषलिङ्गाभावाच्च सत्ताया नानात्वं नास्ति यथा । २ समवायो नाना सम्बन्धत्वात्संयोगवदिति । ३ संयोगस्य । ४ अयं समवायोऽयं समवाय इति । ५ ननु समवायेपि समवायत्वबलान्नानात्वेप्यनुगतप्रत्ययोत्पत्तिः स्यादिति शङ्कायामाह । ६ सामान्यस्य । ७ समवायत्वस्य समवाये सद्भावेऽपरः समवायः समायातस्तत्रापि समवायत्वसमवायेऽपरः समवायः समायात इति । ८ तर्हि संयोगस्याप्यपरसंयोगपूर्वकत्वेनानवस्था कुतो न स्यादित्याह । ९ कथं तर्हि संयोगत्वमित्याह । १० संयोगान्तरापेक्षा नास्तीति भावः । ११ येन समवायेन द्रव्ये द्रव्यत्वं समवेतं तेनैव समवायेन गुणे गुणत्वमपि समवेतं समवायस्यैकत्वात् , ततश्चात्मनि समवेतस्य द्रव्यत्वस्य द्रव्यं यथाभिव्यजकं भवति तथा गुणत्वस्याप्यभिव्यञ्जकं कुतो न भवति एकसमवायसमवेतत्वाविशेषादिति भावः। १२ जनादिना । १३ द्रव्यस्वरूपायाः। १४ द्रव्यस्य । १५ घटादीनाम्। १६ द्रव्यत्वमेव स्वरूपशक्तिरिति भावः, निजा हि शक्तिः पृथिव्यादीनां पृथिवीत्वादिकमेव । १७ गुणत्वादिकमेव स्वरूप शक्तिः । १८ स्वाभिधेयस्यैवाभिव्यञ्जकं नान्यथेति भावः। १९ अबाधितानुगतप्रत्ययहेतुः सामान्यमिति लक्षणं सामान्यस्य, समवायस्य त्वयुतसिद्धेत्यादि । २० दण्डलक्षणविशेषणपूर्वकत्वमत्र । २१ तादात्म्यसंयोगादीमाम् । २२ समवायीनि द्रव्याणीति वचने । २३ विशेषणत्वम् । २४ अप्रतिपन्नदण्डस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org