________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० नापि तन्तुहेतुकः पटहेतुको वा; तंत्र 'तन्तवः, पटः' इति वा प्रत्ययप्रसङ्गात् । नापि वासनाहेतुकः; तस्याः कारणरहितायाः सम्भवाभावात् । पूर्वज्ञानस्य तत्कारणत्वे तदपि कुतःस्यात् ? तत्पू. वैवासनातश्चेत् ; अनवस्था। ज्ञानवासनयोरनादित्वादयमदोषश्चेत्, ५न; एवं नीलादिसन्तानान्तरखसन्तानसंविदद्वैतादिसिद्धेरप्यभावानुषङ्गात् , अनादिवासनावशादेव नीलादिप्रत्ययस्य खतोऽवभासस्य च सम्भवात् । नौपि तादात्म्यहेतुकोयम्; तादात्म्यं होकत्वम् , तत्र च सम्बन्धाभाव एव स्यात् द्विष्ट(ष्ठ)त्वात्तस्य । न च तन्तु
पटयोरेकत्वम् प्रतिभासभेदाद्विरुद्धधर्माध्यासात् परिमाणसंख्या१० जातिभेदाच्च घटपटवत् । नापि संयोगहेतुकः; युतसिद्धेष्वेवार्थेषु
संयोगस्य सम्भवात् । न चात्र समवायपूर्वकत्वं साध्यते येन दृष्टान्तः साध्यविकलो हेतुश्च विरुद्धः स्यात् । नापि संयोगपूर्वकत्वं येनाभ्युपगमविरोधः स्यात् । किं तर्हि ? सम्बन्धमात्रपूर्वकत्वम् ।
तस्मिंश्च सिद्धे परिशेषात्समवाय एव तजनको भविष्यति। १५ त(य)च्चेदम्-'विवादास्पदमिदमिहेति ज्ञानं न समायपूर्व
कमबाधितेहज्ञानत्वात् इह कुण्डे द्धीतिज्ञानवत्' इति विशेषे(ष) विरुद्धानुमानम्, तत्सकलानुमानोच्छेदकत्वादनुमानवादिना न प्रयोक्तव्यम्। • यश्चोच्यते-इदमिहेति ज्ञानं न समवायालम्बनम् ; तत्सत्यम्; २० विशिष्टाधारविषयत्वात् । न हि 'इह तन्तुषु पटः' इत्यादीहप्रत्ययः केवलं समवायमालम्बते; समवाय विशिष्टतन्तुपटालम्बनत्वात् । वैशिष्ट्यं चानयोः सम्बन्ध इति ।
. १ तन्त्वादौ । २ सौगतं प्रत्याह। ३ विकल्पशानाद्वासना वासनातो विकल्पज्ञानमिति बीजाङ्करवत् । ४ सन्तानान्तरं च स्वसन्तानश्च तो नीलादीनां ग्राहको नीलसन्तानान्तरवसन्तानी च स्वसंविदद्वैतादिश्च शानाद्वैतादिश्चेत्यर्थः, तेषां सिद्धिरिति वाक्यम्। ५ नीलादेः समुत्पद्यमानो नीलं नीलमिति प्रत्ययः सन्नव समुत्पद्यते विद्यमानान्नीलादेः समुत्पद्यमानत्वान्न तु कल्पनाशिल्पिकल्पितवासनातः समुत्पद्यमानः सन्समुत्पद्यते। ६ ततोनादिवासनाहेतुकत्वमस्य प्रत्ययस्य नेत्यर्थः । ७ कुतः । ८ न तु नीलादेः। ९ आदिना सन्तानसंग्रहः। १० अन्यतोवमासमाने द्वैतप्रसक्तिस्तन्निरासार्थ स्वतो विशेषणम्। ११ संविदद्वैतस्य । १२ जैनमतमाशङ्कयाह । १३ सम्बन्धमात्रे साध्ये सम्बन्धविशेषसाधनात् । १४ किन्तु संयोगपूर्वकम् । १५ विशेषणसमवायपूर्वकत्वेन विरुद्धमसमवायपूर्वकत्वं तस्यानुमानम् , विशेषविरुद्धा. नुमाने इदमुदाहरणं पर्वतः पर्वतस्थेनाग्निनाग्निमान्न भवति धूमवत्स्वान्महानसवदिति । १६ पर्वतोनिमान्धूमवत्त्वादित्यादेः सम्यगनुमानस्य यदुच्छेदकानुमानं तस्य वक्तुमशक्यत्वादिति भावः । १७ जैनादिना। १८ जनादिना । १९ तस्य शानस्य ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org