________________
सू० ४।१०] समवायपदार्थविचारः
६०५
धाराधेयभूतेष्वपि च भावात्, घटतेच्छब्दज्ञानवत् । नन्वेवम् 'अयुतसिद्धानामेव' इत्यवधारणेप्यव्यभिचारात् 'आधाराधेयभूतानाम्' इति वचनमनर्थकम्, 'आधाराधेयभूतानामेव' इत्यवधारणे 'अयुत सिद्धनाम्' इतिवचनवत्, ताभ्यामव्यभिचारात्; इत्यप्यसारम् ; एकद्रव्यसमवायिनां रूपरसादीनामयुतसिद्धानामेव पर- ५ स्परं समवायाभावात् एकार्थर्समवायसम्बन्धव्यभिचारनिवृत्त्यर्थमुत्तरावधारणम् । न ह्ययं वाच्यवाचकभावादिवद्युतसिद्धानामपि सम्भवति । तथोत्तरावधारणे सत्यपि आधाराधेयभावेन संयोगविशेषेण सर्वदाऽनाधाराधेयभूतानामसम्भवता व्यभिचारो मा भूदित्येवमर्थं पूर्वावधारणम् ।
इति भेदंकलक्षणस्याशेषदोषरहितत्वादिदमुच्यते- तन्तुपटादयः सामान्यतद्वेदादयो वा 'संयुक्ता न भवन्ति' इति व्यवहर्त - व्यम्, नियमेनायुत सिद्धत्वादाधाराधेयभूतत्वाच्च ये तु संयुक्ता न ते तथा यथा कुण्डबदादयः, तथा चैते, तस्मात्संयोगिनो न भवन्तीति । यद्वा तन्तुपदादिसम्बन्धः संयोगो न भवति, निय- १५ मेनायुत सिद्धसम्बन्धत्वाद्, ज्ञानात्मनोर्विषयविषयिभाववदिति ।
ननु समवायस्य प्रमाणतः प्रतीतौ संयोगाद्वैलक्षण्यसाधनं युक्तम्, न चासौ तस्यास्ति; इत्यप्यसत्; प्रत्यक्षत एवास्य प्रतीतेः । तथाहि - तन्तुसम्बद्ध एव पटः प्रतिभासते तद्रूपादयश्च पटादिसम्बद्धाः, सम्बन्धाभावे सह्यविन्ध्यवद्विश्लेषप्रतिभासः स्यात् । २०
अनुमानाच्चासौ प्रतीयते तथाहि - 'इह तन्तुषु पटः' इत्यादीहप्रत्ययः सम्बन्धकार्योऽवध्यमानेहप्रत्ययत्वात् इह कुण्डे दधीत्या दिप्रत्ययवत् । न तावदयं प्रत्ययो निर्हेतुकः; कादाचित्कत्वात् ।
१०
१ शब्दश्च ज्ञानं च शब्दज्ञाने, तस्य घटस्य शब्दशाने तच्छब्दशाने, घटश्च तच्छब्दज्ञाने चेति द्वन्द्वः । २ भूम्याकाशौ घटतच्छन्दाधारौ तौ तत्र सिद्धौ, घटतज्ज्ञाने आत्मभूम्याधारे ते तत्र सिद्धे इति । ३ आधाराधेयभूतानामितिवचनसमर्थनार्थमिदम् । आधाराधेयभावस्य रूपरसादावभावात् । ४ रूपरसादय एकार्थाः । ५ आधार्याधारभूतानामेवेति । ६ प्रथमावधारणेनैव तद्वयभिचारनिवृत्तिः कुतो न भवतीत्याशङ्कयाह । ७ अस्मिन्पर्वते वृक्षा इति । ८ अयुतसिद्धानामेवेति । ९ अनेन प्रकारेणा शेषदोषरहितत्वमयुत सिद्धेत्यादि भेदक लक्षणस्य, इतरेभ्यो द्रव्यादिभ्यः समवायस्य भेदकत्वालक्षणं भेदकमयुत सिद्धेत्यादि । १० अग्रेतनं प्रसक्तप्रतिषेधार्थंमनुमानम् । संयोगानां प्रतिषेधात्समवायस्य सिद्धिर्यंतो भवति ततः परिशेषानुमानमित्यर्थः । ११ आदिपदेन गुणगुणिनः क्रियातद्वन्तश्च । १२ प्रत्यक्षतः । १३ पटतद्रूपादीनाम् । १४ इहात्मनि रूपादय इत्यादीहप्रत्ययेन बाध्यमानेन व्यभिचारपरिहारार्थमिदम् ।
Jain Educationa International
.
For Personal and Private Use Only
www.jainelibrary.org