________________
६०४
प्रमेयकमलमार्तण्डे [४. विषयपरि० यतोऽमेध्याद्यशुचिद्रव्यसंसर्गान्मोदकादयो भावा प्रच्युतप्राक्तनशुचिखभावा अन्ये एवाऽशुचिरूपतयोत्पंद्यन्ते इति युक्तमेषामन्यसंसर्गादशुचित्वम्। न चाण्वादिष्वेतत्सम्भवति, तेषां नित्यत्वादेव प्राक्तनाविविक्तरूपपरित्यागेनापरविविक्तरूपतयानुपप(नुत्प)त्तेः । ५प्रदीपदृष्टान्तोप्यत एवासङ्गतः; पटादीनां प्रदीपादिपदार्थान्तरो
पाधिकस्य रूपान्तरस्योत्पत्तेः, प्रकृते च तदसम्भवात् । . अनुमानबाधितश्च विशेषसद्भावाभ्युपगमः; तथाहि-विवादाधिकरणेषु भावेषु विलक्षणप्रत्ययस्तद्व्यतिरिक्त विशेष निबन्धनो
न भवति, व्यावृत्तप्रत्ययत्वात्, विशेषेषु व्यावृत्तप्रत्ययवदिति । १० तन्न विशेषपदार्थोपि श्रेयान् साधकाभावाद्वाधकोपपत्तेश्च ।
नापि समवायपदार्थोऽनवद्यतल्लक्षणाभावात् । ननु च "अयुतसिद्धानामाधार्याधारभूतानामिहेदम्प्रत्ययहेतुर्यः सम्बन्धः स सम. वायः।” [प्रश० भा० पृ० १४] इत्यनवद्यतल्लक्षणसद्भावात्तद
भावोऽसिद्धः । न चान्तरालाभावेन 'इह ग्रामे वृक्षाः' इतीहेद१५म्प्रत्ययहेतुना व्यभिचारः; सम्बन्धग्रहणात् । न चासौ सम्ब
न्धोऽभावरूपत्वात् । नापि 'इहाकाशे शकुनिः' इति प्रत्ययहेतुना संयोगेन; 'आधाराधेयभूतानाम्' इत्युक्तेः । न ह्याकाशस्य व्यापित्वेनाधस्तादेव भावोस्ति शकुनेरुपर्यपि भावात् । नापि 'इह कुण्डे
दधि' इतिप्रत्ययहेतुना; 'अयुतसिद्धानाम्' इत्यभिधानात् । न खलु २० तन्तुपटादिवधिकुण्डादयोऽयुतसिद्धाः, तेषां युतसिद्धः सद्भावात् । युतसिद्धिश्च पृथगाश्रयवृत्तित्वं पृथग्गतिमत्त्वं चोच्यते । न चासौ तन्तुपटादिष्वप्यस्ति; तन्तून्विहाय पटस्यान्यत्रावृत्तेः।
तथापि 'इहाकाशे वाच्ये वाचक आकाशशब्दः' इति वाच्यवा. चकभावेन 'इहात्मनि ज्ञानम्' इति विषयविषयिभावेन वा व्यभि२५ चारोऽत्रायुतसिद्धेराधाराधेयभावस्य च भावात्; इत्यप्यसाम्प्रतम्; उभयत्राँवधारणीऽऽश्रयणात् । एतयोश्च युतसिद्धष्वप्यना
१ परमते। २ विशेषेभ्यो व्यावृत्तस्वरूपत्वेनोत्पत्तिमत्त्वम् । ३ परमाण्यादीनां नित्यत्वादेव । ४ प्रकाशलक्षणस्य । ५ ग्राहकप्रमाणाभावाच्च । ६ गुणगुण्यादीनाम् । ७ आकाशपरमाण्वादीनां युतसिद्धत्वव्यवस्थापनार्थमिदं लक्षणम् । ८ य इहेदम्प्रत्ययहेतुः स समवाय इत्युच्यमाने । ९ कारणभूतेन । १० कारणभूतेन । ११ अयुतः= अपृथक् । १२ बसः, मल्लयोर्यथा। १३ मेषयोर्यथा वा। १४ अयुतसिद्धानामा. धार्याधारभूतानामित्युभयपदोपादानेपि । १५ सम्बन्धेन। १६ आकाशतद्वाचकशब्दयोरात्मज्ञानयोश्च । १७ आधार्याधारभूतानामयुतसिद्धानां समवाय एवेति न नियम इति भावः। १८ अयुतसिद्धानामाधार्याधारभूतानामित्यत्र । १९ अवधारणम्एवकारः, अयुतसिद्धानामेवाधार्याधारभूतानामेव समवाय इति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org