SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ सू० ४।१०] विशेषपदार्थविचारः - यदि च विशेषाख्यपदार्थान्तरव्यतिरेकेण विलक्षणप्रत्ययोत्पत्तिर्न स्यात् । कथं तर्हि विशेषेषु तस्योत्पत्तिस्तत्रापरविशेषा. भावात् ? भावे वा अनवस्था, 'नित्यद्रव्यवृत्तयः' इत्यभ्युपगमक्षतिश्च स्यात् । अथ स्वत एवात्रान्योन्यवैलक्षण्यप्रतिपत्तिः, तर्हि परमाण्वादीनामप्यत एव तत्प्रत्ययप्रवृत्तिर्भविष्यतीति कृतं विशे-५ पाख्यपदार्थपरिकल्पनया। अथ विशेषेष्वपरविशेषयोगाद्व्यावृत्तबुद्धिपरिकल्पनायामनवस्थादिबोधकोपपत्तेरुपचारात्तेषु तद्बुद्धिः । ननु कोयं तदुद्धरुपचारो नाम ? असतो वस्तुस्वभावस्य विषयत्वेनाक्षेपश्चेत्, कथं नास्या मिथ्यात्वं तद्योगिनां चायोगित्वम् ? १० किञ्च, असौ वस्तुस्वभावो विषयत्वेनाक्षिप्यमाणः संशयत्वेनाक्षिप्यते, विपर्यस्तत्वेन वा? तत्राद्ये पक्षे व्यावृत्तरूपतया चलितप्रतिपत्तिविषयाणां विशेषाणां यथावत्प्रतिपत्त्यसम्भवात्तद्योगिनोऽयोगित्वमेव । द्वितीयेप्येतदेव दूषणम् , विशेषरूपविकलानपि तान् विशेषरूपतया प्रतिपद्यमानस्याऽयोगित्वप्रसङ्गाविशेषात् । १५ यदि च बाँधकोपपत्तेर्विशेषेषु व्यावृत्तबुद्धि परविशेषनिवन्धना; तर्हि परमाण्वादिष्वसौ तन्निबन्धना नाभ्युपगन्तव्या तद्विशेषात् । परमाण्वादौ हि विशेषेभ्योऽन्योन्यं व्यावृत्तबुध्धुत्पत्ती सकलविशेषेभ्यः परमाणूनां व्यावृत्तबुद्धिर्विशेषान्तरात्स्यादित्यनवस्था । स्वतस्तेषां ततो व्यावृत्तबुद्धिहेतुत्वेऽन्योन्यमपि तद्धेतुत्वं २० खत एव स्यादिति व्यर्थमर्थान्तरविशेषपरिकल्पनम् । ननु यथाऽमेध्यादीनां स्वत एवाशुचित्वमन्येषां तु भावानां तद्योगात्तत्तथेहापि तत्स्वभावत्वाद्विशेषेषु स्वत एव व्यावृत्तप्रत्य. यहेतुत्वं परमाण्वादिषु तु तद्योगात्।। किञ्च, अतदात्मकेष्वप्यन्यनिमित्तः प्रत्ययो भवत्येव, यथा २५. प्रदीपॉन्पटादिषु, न पुनः पटादिभ्यः प्रदीपे, एवं विशेषेभ्य एवाण्वादौ विशिष्टः प्रत्ययो नाण्वादिभ्यस्तत्र; इत्यप्यसमीचीनम् । १ विशेषेषु विशेषाणां प्रवृत्तेः । २ आदिना नित्यद्रव्यवृत्तय इत्यभ्युपगमक्षतिश्चेति । ३ विशेषेषु । ४ तस्य-व्यावृत्तस्य । ५ अपरविशेषा उपचारभूतास्तत्संयोगात्तषु जातोपि प्रत्यय उपचाररूप इत्यर्थः । ६ असतो वैलक्षण्यस्य । ७ अन्योन्यव्यावृत्तरूपस्य । ८ वैलक्षण्यरूपः। ९ उपचाररूपः। १० अनवस्थादिरूपो बाधकः। ११ परमाण्वादिभ्यः सर्वर्थी भिन्नेभ्यः। १२ विशेषान्तराणामप्यन्येभ्य इत्यादिप्रकारेण । १३ अव्यावृत्तेषु अणुषु मुक्तमनस्सु च। १४ अन्यो=विशेषः। १५ अन्यनिमित्तात् । १६ इमे पटादय इति प्रत्ययः । १७ सर्वथाभिन्नेभ्यः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy