________________
सू० ४.१०] गुणपदार्थविचारः
५९९ क्रियातोऽर्थान्तरं वेगः; अस्याः शीघ्रोत्पादमात्रे धेगव्यवहारप्रसिद्धः। 'वेगेन गच्छति' इति प्रतीतेः क्रियातोर्थान्तरं वेगः; इत्यप्ययुक्तम् ; 'वेगेन गच्छति, शीघ्रं गच्छति' इत्यनयोरेकत्वात् । न च कर्मणः कर्मारम्भकत्वेऽनुपरमप्रसङ्गः, शब्दवत्तदुपरमोपपत्तेः । यथैव हि शब्दस्य शब्दान्तरारम्भकत्वेप्युपरमस्तथात्रापि । ५ "कर्म कर्मसाध्यं न विद्यते" [वैशे० सू० १।१।११] इत्यपि वचनमात्रत्वादविरोधकम् ।
न च विभिन्नः संस्कारो बाणादीनामपातहेतुः प्रतीयते, अन्यथा कदाचिदपि तेषां पातो न स्यात् , तत्प्रतिबन्धकस्य वेगस्य सर्वदावस्थानात् । न च मूर्तिमद्वाय्वादिसंयोगोपहतशक्तित्वाद्धे-१० गस्य तेषां पतनम् ; प्रथममेव पातप्रसक्तः, तत्संयोगस्य तद्विरोधिनस्तदापि सम्भवात् । न च प्राग्वेगस्य बलीयस्त्वाद्विरोधिनमपि मूर्त्तद्रव्यसंयोगमपास्य शरं देशान्तरं प्रापयति; इत्यभिधात. व्यम्; पश्चादप्यस्य बलीयस्त्वात्तथैव तत्प्रापकत्वप्रसक्तेः। न खलु वेगस्य पश्चादन्यथात्वम्; तथोत्पत्तिकारणाभावात् , तत्स-१५ मवायिकारणत्वस्येष्वादेः सर्वदाऽविशिष्टत्वात् । न च कर्माख्यं कारणं पश्चाद्विशिष्यते; तस्यापि तुल्यपर्यनुयोगत्वात् । न च प्रभूताकाशप्रदेशसंयोगोत्पादनात् संस्कारप्रक्षयादिषोः पातः, संस्कारस्यैकस्वभावत्वेनावस्थितस्य प्रागिव पश्चादपि प्रक्षयानुपपत्तेः । न चाकाशस्य प्रदेशाः परेणेष्यन्ते. येन तत्संयोगानां २० भूयस्त्वं संस्कारप्रक्षयहेतुत्वं वा युक्तियुक्तं भवेत् । कल्पनाशिल्पिकल्पितानां संयोगभेदकत्वं तदायत्तभेदानां च संयोगानां संस्कारप्रक्षयहेतुत्वं दूरोत्सारितमेव।
भावनाख्यस्तु संस्कारो धारणापरनामा नानिष्टः, पूर्वपूर्वानुभवाहितसामर्थ्यलक्षणस्यात्मनोऽनर्थान्तरभूतस्य स्मृत्यादिहेतुत्वे.२५ नास्यास्माभिरपीष्टत्वात्।
स्थितस्थापकरूपस्तु संस्कारोऽसम्भाव्य एव । स हि किं स्वयमस्थिरस्वभावं भावं स्थापयति, स्थिरस्वभावं वा? न तावदस्थिरस्वभावम्, तत्स्वभावानतिक्रमात् । तथाविधस्यापि स्थापने
१ शीघ्रत्वं च क्रियास्वरूपं परमते स्वमते च । २ वेगस्य क्रियात्वे क्रियातः क्रियोत्पद्यत इति भावः। ३ यद्यपि समवायिकारणमविशिष्टं तथापि कर्माख्यं कारणं विशिष्यत इत्युक्ते सत्याह । ४ न खलु कर्माख्यस्य पश्चादन्यथात्वं तथोत्पत्तिकारणाभावादित्यादिरूपेण । ५ नित्यत्वाद्गुणानाम् । ६ आकाशप्रदेशानाम् । ७ संयोगानां नानाकारत्वम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org