________________
५९८
प्रमेयकमलमार्तण्डे [४. विषयपरि० .. 'स्नेहोऽम्भस्येव' इत्यप्ययुक्तम् घृतादेरपि लोके वैद्यकादिशाने
च स्निग्धत्वेन प्रसिद्धत्वात् । घृतादावन्यनिमित्तत्वेनौपचारिकः स्निग्धप्रत्ययः, इत्यप्यसाम्प्रतम्। विपर्ययस्यापि कल्पयितुं शक्यत्वात् । तथा हि-तोयसम्पर्केप्योदनादौ च स्निग्धप्रत्ययो नास्ति ५घृतादिसम्पर्के तु स्निग्धप्रत्ययः सर्वेषामस्त्येवेति । कणिकादौ तोयस्य बन्धहेतुत्वोपलम्भात्तस्यैव स्नेहो विशेषगुणः; इत्यप्यसारम् ; भवता स्नेहरहितत्वेनाभ्युपगतस्यापि क्षीरजतुप्रभृतेर्बन्धहे. तुत्वेन प्रतीते।
स्नेहस्य गुणत्वाभ्युपगमे च काठिन्यमार्दवादेरपि गुणत्वाभ्यु१० पगमः कर्त्तव्यः, तथा च तत्संख्याव्याघातः स्यात् । ननु काठिन्यादेः संयोगविशेषरूपत्वात्कथं गुणसंख्याव्याघातहेतुत्वम् ? तथा चोक्तम्-"अवयवानां प्रशिथिलसंयोगो मृदुत्वम्" [ ..] इत्यादि तदप्यसङ्गतम् । चक्षुषा संयोगेषु प्रतीयमानेष्वपि
मार्दवादेरप्रतिभासनात् । यो हि यद्विशेषः स तस्मिन्प्रतीयमाने १५ प्रतीयत एव यथा रूपे प्रतीयमाने तद्विशेषो नीलादिः, न प्रती
यते च संयोगेषु प्रतीयमानेष्वपि काठिन्यादिः, तस्मान्नासौ तद्विशेष इति । कटाद्यवयवानां प्रशिथिलसंयोगेपि मृदुत्वाप्रतीतेश्च, विशिष्टचर्माद्यवयवानामप्यप्रशिथिलसंयोगित्वेपि मृदुत्वो. पलब्धेश्चेति २०. ननु काठिन्यादेः संयोगविशेषरूपत्वाभावे कथं कठिनमेव
कणिकादिद्रव्यं मर्दनादिना मृदुत्वमापाद्यते ? इत्यप्यसुन्दरम्; न हि तदेव द्रव्यं मृदु भवति । किं तर्हि ? पूर्वकठिनपर्यायनिवृत्तौ मृदुपर्यायोपेतं द्रव्यान्तरमुत्पद्यते । संयोगविशेषमृदुत्ववादिनापि
पूर्वद्रव्य निवृत्तिरत्राभ्युपगतैव । ततः स्पर्शविशेषो मृदुत्वादिर २५भ्युपगन्तव्यः 'कठिनः स्पर्शी मृदुः स्पर्शः' इति प्रतीतिदर्श
नात् । तथा च पाकजत्वमपि स्पर्शस्योपपन्नं घटादिषु रूपादिवत् विलक्षणस्पर्शोपलम्भात् नान्यथा । न च काठिन्यादिव्यतिरेकेण स्पर्शस्यान्यद्वैलक्षण्यं व्यवस्थापयितुं शक्यमिति।।
वेगाख्यस्तु संस्कारो न केवलं पृथिव्यादावेवास्ति आत्मन्य३० प्यस्य सम्भवात् , तस्यापि सक्रियत्वेन प्रसाधितत्वात् । न च
. १ अन्यत् जलम् । २ मृदुरूपोपि संयोगगुण विशेषः। ३ मृदुत्वादेः स्पर्शविशेषत्वे च । ४ मूदुत्वादेः स्पर्शविशेषस्याभावे स्पर्शस्य न पाकजत्वं विलक्षणस्पर्शाभावादिति भावः । ५ काठिन्यादेः स्पर्शविशेषत्वाभावेपि स्पर्शस्यान्यदैलक्षण्यं सम्भविष्यति ततश्च विलक्षणस्पर्शीपलम्भेन पाकजत्वमप्यविरुद्धं स्पर्शस्येत्याशङ्कायामाह । ६ आत्मनो निष्क्रियत्वात्कथं वेगास्यस्य संस्कारस्य सम्भव इत्युक्ते सत्याह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org