________________
६००
प्रमेयकमलमार्तण्डे [४. विषयपरि० तिप्रसङ्गः । क्षणादूर्ध्व चार्थस्य स्वयमेवाभावात्कस्यासौ स्थापक स्यात् ? भावे वाऽस्थिरस्वभावताविरोधः। अथ द्वितीयः पक्षा, तदा स्थिरखभावेऽवस्थितानामर्थानां स्वयमेवावस्थानाकिमकिञ्चित्करस्थापकप्रकल्पनया? ततः खहेतुवशात्तथा तथा परिण. ५तिरेवार्थानां स्थितस्थापकः संस्कारो नान्यः । - धर्माधर्मशब्दानां तु गुणत्वं प्रागेव प्रतिविहितमित्यलमतिप्र. सङ्गेन । ततः "कर्तुः फलदाय्यात्मगुण आत्ममनःसंयोगजः खकायविरोधी धर्माधर्मरूपतया भेदवानदृष्टाख्यो गुणः" [ ] इत्ययुक्तमुक्तम् । इदं तु युक्तम् “कर्तुः प्रियहितमोक्षहेतुर्धर्मः, १० अधर्मस्त्वप्रियप्रत्ययहेतुः" [प्रश० भा० पृ० २७२-२८०] इति । तन्न गुणपदार्थोपि श्रेयान् । ।
नापि कर्मपदार्थः। स हि पञ्चप्रकारः परैः प्रतिपाद्यते- "उत्क्षे. पणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि" [वैशे० सू०
२११७] इत्यभिधानात्। तत्रोत्क्षेपणं यदूर्वाधःप्रदेशाभ्यां संयोग१५ विभागकारणं कर्मोत्पद्यते, यथा शरीरावयवे तत्सम्बद्ध वा मूर्तिमद्रव्ये ऊर्ध्वदिग्भाविभिराकाशदेशाद्यैः संयोगकारणमधोदिग्भामावच्छिन्नैश्च तैर्विभागकारणम् । तद्विपरीतसंयोगकारणं च कर्मावक्षेपणम् । ऋजुद्रव्यस्य कुटिलत्वकारणं च कर्माकुञ्चनम् , यथा ऋजुनोडल्यादिद्रव्यस्य येऽनावयवास्तेषामाकाशादिभिः खयंयो. २० गिभिर्विभागे सति मूलप्रदेशैश्च संयोगे सति येन कर्मणाङ्गुल्यादिरवयवी कुटिलः संपद्यते तदाकुश्चनम् । तद्विपर्ययेण संयोगविभागोत्पत्तौ येनावयवी ऋजुः सम्पद्यते तत्कर्म प्रसारणम् । अनियतदिग्देशैर्यत्संयोगविभागकारणं तद्गमनम् । उत्क्षेपणादिकं तु चतुःप्रकारमपि कर्म नियतदिग्देशसंयोगविभागकारणमिति । २५ तदेतत्पश्चप्रकारतोपवर्णनं कर्मपदार्थस्याविचारितरमणीयम्;
देशाद्देशान्तरप्राप्तिहेतुः परिस्पन्दात्मको हि परिणामोऽर्थस्य कर्मोच्यते । उत्क्षेपणादीनां चात्रैवान्तर्भावः । अत्रान्तभूतानामपि कञ्चिद्विशेषमादाय भेदेनाभिधाने भ्रमणस्प(स्य)न्दनादीनामप्यतो मेदेनाभिधानानुषङ्गात्कथं पञ्चप्रकारतवास्य ? ..
- १ विद्युदादीनामपि स्थापकः स्यादित्यतिप्रसङ्गः। २ स्वकार्ये क्रियमाणे सति विरोधोऽभावो यस्य सः। ३ मुसलादिर्यथा । ४ प्रियः सुखदः। ५ हितः परिणामपथ्यः। ६ दुःखकारणम्। ७ ऊर्ध्वाधःप्रदेशाभ्यां विपरीतो अधऊर्ध्वप्रदेशौ । ८ ऊर्ध्वाः। ९ ऊर्वाधःप्रदेशयोः १० गमनस्य यथाऽनियतदिग्देशः संयोगविमागकारणत्वं तथोत्क्षेपणादेरनियतदिग्देशाभ्यां संयोगविभागकारणत्वं ततश्च कथमुत्क्षेपणादीनां भेद इत्युक्ते सत्याह । ११ पञ्चप्रकारात्कर्मणः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org