________________
५९५
सू० ४।१०] गुणपदार्थविचारः विभक्तत्वादनेकपदार्थसन्निधानायत्तोदयत्वाद्वा देवदत्तयशदत्तगृहविभागबुद्धिवद् हिमवद्विन्ध्यविभागबुद्धिवद्वा ।
सत्यपि वा संयोगे विभागस्य तदभावलक्षणत्वान्न गुणरूपता। कथमन्यथा पुत्रादौ चिरनिवृत्तेपि संयोगे विभक्तप्रत्ययः स्यात् ? न खलु तत्र विभागः संभवति, अस्य कियत्कालस्थायिगुणत्वेना-५ भ्युपगमात् । कथं वा हिमवद्विन्ध्यादौ संयोगेऽनुत्पन्नेपि विभक्तप्रत्ययः स्यात् संयोगाभावात् ? व्यतिरिक्तविभागस्वरूपस्य कचिदप्यनुपलम्भानोपचारकल्पनापि साध्वी।
विभागाभावे कुतः संयोगनिवृत्तिरिति चेत् ? 'कर्मण एव' इति ब्रूमः । 'कर्ममात्रादपि तन्निवृत्तिः स्यात्' इत्यप्यदोषः:१० संयोगमात्रनिवृत्तेरिष्टत्वात् । संयोगविशेषनिवृत्तिस्तु कर्मविशेषात् , त्वन्मते ततो विभागविशेषोत्पत्तिवत् । कर्मणः संयोगोत्पादकत्वात्कथं तन्निवर्तकत्वमिति चेत् ? तर्हि हस्तवाणादिसंयोगस्य कैमोत्पादकत्वोपलम्भात् कथं वृक्षादौ बाणादिसंयोगस्य तन्निर्तकत्वं स्यात् ? अन्यस्य तन्निवर्तकत्वमन्यत्रापि १५ समानम् । न खलु येनैव कर्मणा यः संयोगो जनितः स. तेनैव निवर्त्यते इति ।
एतेन विभागजविभागोपि चिन्तितः। तस्यापि संयोगाभावरूपस्य क्रियात एवोत्पत्तिप्रसिद्धः । ननु यदि विभागजविभागो न स्यात्तर्हि हस्तकुड्यसंयोगविनाशेपि शरीरकुड्यसंयोगविनाशो न २० प्राप्नोति; तन्न; हस्तकुड्यसंयोगव्यतिरेकेण शरीरकुड्यसंयोगस्यैवासंभवात् । हस्तकुड्यसंयोगादेवासौ कल्प्यते इति चेत् तर्हि हस्तकर्मदर्शनाच्छरीरेपि कर्म कस्मान्न कल्प्यते तुल्याक्षेपसमा. धानत्वात्।
१ अनेकपदार्थैः सह सन्निकर्ष इन्द्रियाणाम् , तस्यायत्त उदयो यस्या इति वाक्यम् । २ विभागस्य । ३ यतो यत्र संयोगपूर्वको विभक्तप्रत्ययस्तत्रैव विभागव्यवहारो युज्यते, न चानयोः प्राक् संयोगः पश्चाद्विभाग इति । ४ व्यतिरिक्तस्य वस्तुनः सकाशाद्भिन्नरूपस्य । ५ कचिन्मुख्यत्वेनाप्रसिद्धस्योपचाराभावात् , सति संभवेन्यत्र निमित्तप्रयोजनवशादुपचारः प्रकल्प्यते यतः। ६ क्रियातः । ७ जैनाः। ८ कस्माच्चिदेव कर्मण इत्यर्थः। ९ तस्य संयोगस्य । १० जैनानाम् । ११ यथा द्रव्यारम्भक (परमाणु) संयोगविशेषनिवृत्तिर्भिधमानवंशाधवयविद्रव्यस्यावयवक्रियात इति संबन्धः । १२ तव वैशेषिकस्य । १३ अत्र देशाद्देशान्तरप्राप्तिलक्षणमेव कर्म गृह्यते । १४ वृक्षादौ संयुज्य बाणादिः पुनर्न ततोपदेश यातीत्यर्थः। १५ संयोगनिवृत्तेः कर्मजत्वप्रतिपादनेन।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org