________________
५९६
प्रमेयकमलमार्तण्डे [४. विषयपरिक ...यच्चोच्यते तत्प्रसिद्धयेऽनुमानम्-विवक्षितावयवक्रियाऽऽका शादिदेशेभ्यो विभागं न करोति, द्रव्यारम्भसंयोगविरो घिविभागोत्पादकत्वात्, या पुनराकाशादिदेशविभागकी सा संयोगविशेषनिवर्त्तकविभागजनिकापि न भवति यथाङ्गुलि५क्रियेति । यदि भिद्यमानवंशाद्यवयविद्रव्यस्यावयवक्रिया आकाशादिदेशेभ्यो विभागं कुर्यात् तर्हि वंशादिद्रव्यारम्भकसंयोगविरोधिविभागोत्पादकमेवास्या न स्यादगुल्याद्यवयविद्रव्य. क्रियावत् । ततोऽवयविद्रव्यस्याकाशादिदेशविभागोत्पादकोऽ. विभागोऽभ्युपगन्तव्यः, इत्यप्यसाम्प्रतम्; वश्यं विभागोत्पा१० दकत्वस्यासिद्धत्वात् । क्रियात एव संयोगनिवृत्तेरुक्तत्वात् ।
अथ 'अवयविनस्तक्रियाऽऽकाशादिदेशसंयोगं न निवर्त्तयति द्रव्यारम्भकसंयोगनिवर्तकत्वात्' इतीदमत्र विवक्षितम् ; तथाप्यसाधारणो हेतुः; सपक्षेप्याकाशादिदेशसंयोगानिवर्त्तके रूपादौ
वृत्तरभावात् । न चावयवसंयोगादवयविनः संयोगोन्यः, तद्भेदै१५ कान्तस्य प्रागेव प्रतिक्षेपात्, विनाशोत्पादप्रक्रियायाश्च कृतो. त्तरत्वात् । तन्न विभागो घटते।
नापि परत्वापरत्वे; परापरप्रत्ययाभिधानयोस्तदन्तरेणापि रूपादौ सम्भवात् । तथाहि-क्रमोत्पन्ननीलादिगुणेषु 'परं नीलम
परं च' इति प्रत्ययोत्पत्तिः असत्यपि परत्वापरत्वलक्षणे गुणे दृष्टा २० गुणानां निर्गुणतयोपगमात्, तथा घटादिष्वपि स्यात् । अथात्र दिकालकृतः परापरप्रत्ययः, ननु घटादिष्वप्यसो तत्कृतोस्तु विशेषाभावात् । तथा च प्रयोगः-योयं परापरादिप्रत्ययः स परपरिकल्पितगुणरहितार्थमात्रकृतक्रमोत्पादव्यवस्थानिवन्धनः, परा
परप्रत्ययत्वात् , रूपाँदिषु परापरप्रत्ययवत् । 'विप्रकृष्टं परं संनि२५कृष्टमपरम्' इति चानयोरेकार्थत्वान्न मेदं पश्यामः। ततश्चायुक्तः
१ भिधमानवंशाधवयविद्रव्यस्य। २ भिद्यमानवंशाधवयविन इति शेषः । ३ द्रव्य वंशादि। ४ परमाणु। ५ प्रसारणसङ्कोचनरूपा। ६ द्रव्यारम्भकसंयोगविरोधिवि. भागोत्पादकत्वं च स्यादाकाशादिदेशेभ्यो विभागं च कुर्यादिति सन्दिग्धानकान्तिकत्वे सत्याह। ७ विभागाद्विभागो जात इत्यर्थः। ८ जैनादिना । ९ तर्हि विभागाभावे संयोग. निवृत्तिः कथमिति शङ्कायामाह । १० अनैकान्तिकः । ११ तयोः अवयवावयविनोः । १२ अवयवेषु क्रिया क्रियातः संयोगः संयोगादवयविन उत्पत्तिरिति प्रक्रियातस्तयोमेंद इत्युक्ते सत्याह । १३ द्रव्यारम्भकसंयोगविरोधिविभागोत्पादकत्वसाधनमसिद्धं यतः। १४ न तु स्वाभाविकः । १५ गुणौ परत्वापरत्वलक्षणौ । १६ अर्थो दिकाललक्षणः । १७ गुणरूपेषु। १८ परविप्रकृष्टयोरपरसन्निकृष्टयोश्च ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org