________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० त्तात्मानस्ते खव्यतिरिक्तपृथक्त्वानाधाराः यथा रूपादयः, परस्परव्यावृत्तात्मानश्च घटादयोर्था इति ।
ततो विभिन्न स्वभावतयोत्पन्नार्थस्यैव 'पृथक् इतिप्रत्ययविषयत्वप्रसिद्धरलं पृथक्त्वगुणकल्पनया। पृथक्प्रत्ययस्याप्यसाधारण५धर्मादेवोपपत्तेः, यदा ह्येकं वस्त्वितरेभ्यो भिन्नं पश्यति प्रतिपत्ता तदा 'एकं पृथक' इति प्रतिपद्यते । यदा तु द्वे वस्तुनीतरेभ्यो विलक्षणैकधर्मयोगाद्विभिन्ने पश्यति तदा 'द्वे पृथक्' इति मन्यते। यदा त्वेकदेशत्वादिना धर्मणेतरेभ्यो बहूनि भिन्नानि पश्यति तदा 'एतान्येतेभ्यः पृथक् इति प्रतिपद्यते, यथा रूपादयो द्रव्या१०त्पृथगिति।
संयोगस्तु समवायनिराकरणप्रघट्टके प्रतिषेत्स्यते । तदभावात् 'प्राप्तिपूर्विका अप्राप्तिर्विभागः' इत्यपि निरस्तम् । न हि प्राग्भाविसान्तररूपतापरित्यागेन निरन्तररूपतयोत्पन्नवस्तुव्यतिरेके.
णान्यः संयोगः संयुक्तप्रत्ययविषयोनुभूयते । अविच्छिन्नोत्पत्तिः १५कमेव हि वस्तु निरन्तरप्रत्ययविषयः निरन्तरोपरचितदेवदत्त
यज्ञदत्तगृहवत् । न खलु गृहयोः परेणापि संयोगगुणाश्रयत्वमिष्टम् , निर्गुणत्वाहुणानाम् , तंयोश्च संयोगात्मकत्वेन गुणत्वात् । नापि विच्छिन्नोत्पन्नवस्तुव्यतिरेकेणान्यो विभागो विभक्तप्रत्ययविषयो हिमवद्विन्ध्यवत् । न हि तयोविभागाश्रयत्वं प्राप्तिपूर्वि २० काया अप्राप्तेर्विभागलक्षणायास्तयोरभावात्।
प्रयोगः-या संयुक्ताकारा बुद्धिः सा भवत्परिकल्पितसंयोगानास्पद्वस्तुविशेषमात्रप्रभवा यथा 'संयुक्तौ प्रासादौ' इति बुद्धिः, संयुक्ताकारा च 'चैत्रः कुण्डली' इत्यादिबुद्धिरिति । यद्वा, याऽनेकवस्तुसन्निपाते सति समुत्पद्यते सा भवत्परिक २५ल्पितसंयोगविकलानेकवस्तुविशेषमात्रभाविनी यथाऽविरलाऽव. स्थिताऽनेकतन्तुविषया बुद्धिः, तथा च विमत्यधिकरणभावापन्ना संयुक्तबुद्धिरिति। तथा मेषादिषु विभक्तबुद्धिविभागरहितपदार्थमात्रनिबन्धना
१ स्वव्यतिरिक्तपृथक्त्वानाधारा घटादयो यतः । २ वस्तुव्यतिरिक्तपृथक्त्वासम्भवास्कथं पृथक्त्वप्रत्ययोत्पत्तिरित्युक्ते सत्याह । ३ असाधारण: तन्मात्रवृत्तिः । ४ आदिना कालत्वस्वरूपत्वग्रहः । ५ भिन्नरूपतेत्यर्थः। ६ अभिन्नरूपतयेत्यर्थः । ७ अपृथक । ८ न केवलमसाभिः । ९ गृहस्य गुणत्वमसिद्धमित्याह । १० इन्द्रियाणामनेकवस्तुमिः सह सन्निपाते सन्निकर्षः समुत्पद्यते इत्यर्थः। ११ अयमस्मान्मेषाद्भिनो मेष इत्यादि. प्रकारेण।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org