________________
सू० ४।१० ]
गुणपदार्थवादः
म्बन्धो हि समवायलक्षणो भवताभ्युपगम्यते, न चासौ प्रमाणतः प्रसिद्ध इति । विशेषणासिद्धत्वं च द्रव्यत्वसामान्यस्य यथाभ्युपगतस्वभावस्यासम्भवात् । तन्न परपरिकल्पितो द्रव्यपदार्थों घटते ।
५८७
नापि गुणपदार्थः । स हि चतुर्विंशतिप्रकारः परैरिष्टः । तथाहि"रूपरसगन्धस्पर्शाः संख्या परिमाणानि पृथक्त्वं संयोगविभागौ ५ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च तु गुणाः " [ वैशे० सू० १२१२६ ] इति सूत्रसङ्ग्रहीताः सप्तदश, चशब्दसमुचिताः गुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दाच सप्तेति । तत्र रूपं चक्षुर्ग्राह्यं पृथिव्युदकज्वलनवृत्ति । रसो रसनेन्द्रियग्राह्यः पृथिव्युदकवृत्तिः । गन्धो घ्राणग्राह्यः पृथिवीवृत्तिः । स्पर्शस्त्व- १० गिन्द्रियग्राह्यः पृथिव्युदकज्वलनपवनवृत्तिः ।
संख्या त्वेकादिव्यवहारहेतुरेकत्वादिलक्षणा, एकद्रव्या चानेकद्रव्या च । तत्रैकसंख्या एकद्रव्या । अनेकद्रव्या तु द्वित्वादिसंख्या । सा च प्रत्यक्षत एव सिद्धा, विशेषर्बुद्धेश्च निमित्तान्त रापेक्षत्वादनुमानतोपि ।
१५
परिमाणव्यवहारकारणं परिमाणम्, महदणु दीर्घं हस्वमिति चतुर्विधम् । तत्र महद्विविधं नित्यमनित्यं च । नित्यमाकाशकाल - दिगात्मसु परममहत्त्वम् । अनित्यं द्व्यणुकादिद्रव्येषु । अण्वपि नित्यानित्य भेदाद्विविधम् । परमाणुमनस्तु पारिमाण्डल्यलक्षणं नित्यम् । अनित्यं द्व्यणुके एव । बंदरामलकबिल्वादिषु तु मह २०. त्वपि तत्प्रकर्षाभावमपेक्ष्य भक्तोऽणुव्यवहारः ।
१४
ननु महद्दीर्घत्वयोरुयणुकादिषु प्रवर्त्तमानयोर्ह्यणुके चाणुत्वहस्त्वयोः को विशेषः ? 'महत्सु दीर्घमानीयतां दीर्घेषु महदानीयताम्' इति व्यवहारभेदप्रतीतेरस्त्यनयोः परस्परतो भेदः । अणुत्वह्रस्वत्वयोस्तु विशेषो योगिनां तद्दर्शिनां प्रत्यक्ष एव । महदादि २५
१ वैशेषिकेण I २ नित्य निरंशत्वेन । ३ च इति कपुस्तके नास्ति । ख, ग, पुस्तकेभ्यः संयोजितः । ४ एव । ५ विशेषः = भेदः । ६ एकादिप्रत्यया विशेष [ण ] ग्रहणापेक्षा विशिष्टप्रत्ययत्वाद्दण्डीत्यादिप्रत्ययवदिति । ७ तत्रैकत्वसंख्या नित्यद्रव्येषु नित्या कार्यद्रव्येष्वनित्या । द्वित्वादिसंख्या तु परार्द्धान्ता अपेक्षाबुद्धिजन्या सर्वत्रानित्या | ८ वर्तुलाकारमित्यर्थः । ९ नन्वणु द्वणुके एव यदि वर्त्तते तर्हि बदरामलकादिष्वणुपरिमाणव्यवहारः कथमित्याशङ्कायामाह । १० तस्य = अतिशयस्य । ११ उपचरितः । १२. परिमाणयोः । १३ वस्तुषु । १४ वस्तु । १५ महदादिपरिमाणस्य रूपादिभ्योऽभेदो भविष्यतीत्युक्त संत्याह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org