________________
५८८
प्रमेयकमलमार्तण्डे [४. विषयपरि० च परिमाणं रूपादिभ्योऽथान्तरं तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वात्सुखादिवत् ।
संयुक्तमपि द्रव्यं यद्वशात् 'अत्रेदं पृथक्' इत्यपोद्भियते तदपो. द्धारव्यवहारकारणं पृथक्त्वं घंटादिभ्योऽर्थान्तरं तत्प्रत्ययविल५क्षणशान ग्राह्यत्वात्सुखादिवत्।
अप्राप्तिपूर्विका प्राप्तिः संयोगः। प्राप्तिपूर्विका चाप्राप्तिर्विभागः। तौ च द्रव्येषु यथाक्रमं संयुक्तविभक्तप्रत्ययहेतूं। _ 'इदं परमिदमपरम्' इति यतोऽभिधानप्रत्ययौ भवतस्तद्यथाक्रम
परत्वमपरत्वं च । बुद्ध्यादयः प्रयत्नान्ताश्च गुणाः सुप्रसिद्धा एंव। १० गुरुत्वं च पृथिव्युदकवृत्ति पतनक्रियानिबन्धनम् । द्रवत्वं तु पृथिव्युदकज्वलनवृत्तिः स्प(स्य)न्दनंहेतुः। पृथिव्यनलयोनैमित्तिकम् । अपां सांसिद्धिकम् । स्नेहस्त्वऽम्भस्येव स्निग्धप्रत्ययहेतुः। __ संस्कारस्तु त्रिविधो वेगो भावना स्थितस्थापकश्चेति । तत्र
वेगाख्यः पृथिव्यप्तेजोवायुमनस्सु मूर्त्तद्रव्येषु प्रयत्नाभिघातविशे१५षापेक्षात्कर्मणः समुत्पद्यते । नियतदिक्रियाप्रतिव(प्रबन्धहेतुः
स्पर्शवद्व्यसंयोगविरोधी च । भावनाख्यः पुनरात्मगुणो ज्ञानजो ज्ञानहेतुश्च, दृष्टानुभूतश्रुतेष्वप्यर्थेषु स्मृतिप्रत्यभिज्ञाकार्योन्नीयमानसद्भावः । मूर्तिमद्रव्यगुणः स्थितस्थापकः, घनावयवसन्निवे.
शविशिष्टं स्वमाश्रयं कालान्तरस्थायिनमन्यथाव्यवस्थितमपि प्रय२० ततः पूर्ववद्यथावस्थितं स्थापयतीति कृत्वा, दृश्यते च तालपत्रादेः प्रभूततरकालसंवेष्टितस्य प्रसार्यमुक्तस्य पुनस्तथैवावस्थानं संस्कारवशात् । एवं धनुःशाखाङ्गदन्तादिषु भग्नापवर्तितेषु वस्त्रादौ चास्य कार्य परिस्फुटमुपलभ्यत एव । धर्मादयस्तु सुप्रसिद्धा एवेति।
१ विभागात्पृथक्त्वस्य भेदाभावात्पृथक्त्वप्रतिपादनं किमर्थमित्युक्ते सत्याह । २ पृथक क्रियते। ३ अस्तु विभागात्पृथक्त्वस्य भेदस्तथापि घटादिभ्योऽभेदो भविष्यतीत्युक्ते वक्ति । ४ अनित्यावेव । ५ अनित्यमेव । ६ अनित्यमेव । ७ अनित्या एव । ८ तच्च पार्थिवाप्याणुषु नित्यं व्यणुकादिष्वनित्यम् । ९ लाक्षालोहादिषु । १० सर्पिःसुवर्णयोः । ११ अनित्यमित्यर्थः । १२ नित्यमित्यर्थः । आप्याणुषु नित्यमाप्ययणुकादिषु त्वनिसम् । १३ असर्वगतद्रव्यपरिमाणवरिस्वत्यर्थः। १४ कर्मधारयः। १५ वृक्षादिकेन स्पर्शवता द्रव्येण सह वेगाख्यस्य बाणादेः संयोगे सति वेगाख्यः संस्कारः स्वयं विनश्यतीत्यर्थः। १६ आकृष्टमुक्तेषु। १७ स त्रिविधोप्ययं संस्कारो अनित्य एव, धर्माधर्मावात्मविशेषगुणावनित्यावेव, शब्दस्त्वाकाशविशेषगुणोऽनित्य एव ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org