________________
५८६
प्रमेयकमलमार्तण्डे [४. विषयपरि० विरोधः । अन्त्यावस्थायां चास्यात्यन्तविनाशे स्मरणाद्यभावात्स्तनादौ प्रवृत्त्यभाव एव स्यात् । न चेयं विनाशोत्पादप्रक्रिया क्वचिद् दृश्यते । न खलु कटकस्य केयूरीभावे कुंतश्चिद्भागेषु क्रिया विभागः संयोगविनाशो द्रव्यविनाशः पुनस्तदवयवाः केवलास्तद५नन्तरं तेषु कर्मसंयोगक्रमेण केयूरी(व इति, केवलं सुर्वणकारका(कारकरा)दिव्यापारे कटकस्य केयूरीभावं पश्यामः । अन्यथा कल्पने च प्रत्यक्षविरोधः।
न च सावयवशरीरव्यापित्वे सत्यात्मनस्तच्छेदे छेदप्रसङ्गो दोषाय; कथञ्चित्तच्छेदस्येष्टत्वात् । शरीरसम्बद्धात्मप्रदेशेभ्यो १० हि तत्प्रदेशानां छिन्नशरीरप्रदेशेऽवस्थानमात्मनश्छेदः, स चात्री
स्त्येव, अन्यथा शरीरात्पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् । न च छिछन्नावयप्रतिष्ठस्यात्मप्रदेशस्य पृथगात्मत्वानुषङ्गः, तत्रैवानुप्रवेशात् । कथमन्यथा छिन्ने हस्तादौ कम्पादितल्लिङ्गोपलम्भा
भावः स्यात् ? १५ ननु कथं छिन्नौच्छिन्नयोः संघटनं पश्चात् ? न; एकान्तेन
छेदानभ्युपगमात्, पद्मनालतन्तुवदविच्छेदस्याप्यभ्युपगमात् । तथाभूतादृष्टवशाच्च तदविरुद्धमेव । ततो यद्यथा निर्वाधबोधे प्रतिभाति तत्तथैव सद्व्यवहारमवतरति यथा स्वारम्भकतन्तुषु
प्रतिनियतदेशकालाकारतया प्रतिभासमानः पटः, शरीरे एव २० प्रतिनियतदेशकालाकारतया निर्बाधबोधे प्रतिभासते चात्मेति । न चायमसिद्धो हेतुः; शरीराद्वहिस्तत्प्रतिभासाभावस्य प्रतिपादितत्वात् । उक्तप्रकारेण चानवद्यस्य वाधकप्रमाणस्य कस्यचिदसम्भवान्न विशेषणासिद्धत्वमिति । तन्न परेषां यथाभ्युपगत
खभावमात्मद्रव्यमपि घटते । २५ नापि मनोद्रव्यम् ; तस्य प्रागेव स्वसंवेदनसिद्धिप्रस्तावे निरा
कृतत्वात् । ततः पृथिव्यादेव्यस्य यथोपवर्णितखरूपस्य प्रमाणतोऽप्रसिद्धेः 'पृथिव्यादीनि द्रव्याणीतरेभ्यो भिद्यन्ते द्रव्यत्वाभिसम्बन्धात्' इत्यादिहेतूपन्यासोऽविचारितरमणीयः, तत्स्वरूपासिद्धौ हेतोराश्रयासिद्धत्वात् । स्वरूपासिद्धत्वाच; द्रव्यत्वाभिस.
.. १ समानजातीयभिन्नावयवारभ्यत्वं प्रत्यक्षेण न ज्ञायते यतः। २ अग्रे वक्ष्यमाणा। ३ कारणात् । ४ अवयवेषु। ५ क्रिया । ६ केयूरोत्पादः। ७ वयं जनाः। ८ अवयवापेक्षया। ९ जैनस्य । १० आत्मनि। ११ आत्मन्येव । १२ तस्य= आत्मनः। १३ प्रदेशयोः। १४ सङ्घटनकारिकर्मवशात् । १५ शरीरे एव प्रतिनियतदेशकालाकारतया निर्बाधबोधे प्रतिभासमानत्वादिति । १६ वैशेषिकद्वारा।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org