________________
सू० ४.१०]
आत्मद्रव्यवादः
५८५
वात् । उपकारः, इत्यप्ययुक्तम्; अपेक्ष्यादपेक्षकस्यासम्बन्धान. वस्थानुषङ्गेणोपकारस्यैवासम्भवात् । सहायकर्मजननम् ; इत्यप्यसत्; तयोरन्यतरस्यापि केवलस्य तजननसामर्थ्य परापेक्षायोगात् । यदि पुनः स्वहेतोरेवादृष्टसंयोगयोः सहितयोरेव कार्यजननसामर्थ्य मिष्यते; तर्हि तत एवादृष्टस्यैव तत्संयोगनिरपेक्षस्य ५ तत्सामर्थ्यमस्तु । दृश्यते हि हस्ताश्रेयेणायस्कान्तादिना स्वाश्रयासंयुक्तस्य भूभागस्थितस्य लोहादेराकर्षणमित्यलमतिप्रसङ्गेन । __ यदप्युक्तम्-सावयवं शरीरं प्रत्यवयवमनुप्रविशस्तदात्मा सावयवः स्यात् , तथा च घटादिवत्समौनजातीयावयवारभ्यत्वम् , समानजातीयत्वं चावयवानामात्मत्वाभिसम्बन्धादित्येकत्रात्म-१० न्यनन्तात्मसिद्धिः, यथा चावयवक्रियातो विभागात्संयोगविनाशाद्धटविनाशः तथात्मविनाशोपि स्यात् । इत्यप्यपरीक्षिताभिधा. नम्। सावयवत्वेन भिन्नावयवारब्धत्वस्य घटादावप्यसद्धः। न खलु घटादिः सावयवोपि प्राक्प्रसिद्धसमानजातीयकपालसंयोगपूर्वको दृष्टः, मृत्पिण्डात् प्रथममेव खावयवरूपाद्यात्मनोस्य १५ प्रादुर्भावप्रतीतेः। न चैकत्र पटादौ खावयवतन्तुसंयोगपूर्वकत्वो. पलम्भात्सर्वत्र तद्भावो युक्तः, अन्यथा काष्ठे लोहलेख्यत्वोपलम्भादपि तथाभावः स्यात् । प्रमाणबाधनमुभयँत्र समानम् ।
किञ्च, अस्य तथाँभूतावयवारब्धत्वम्-आदौ, मध्यावस्थायां वा साध्येत? न तावदादौ; स्तनादौ प्रवृत्त्यभावानुषङ्गात्, त त्वभि-२० लाषप्रत्यभिज्ञानस्मरणदर्शनादेरभावात् । तदारम्भकावयवानां प्राक सतां विषयदर्शनादिसम्भवे तेषामेवाहर्जातवेलायां सत्त्वान्तराणामिव प्रवृत्तिः स्यात् । मध्यावस्थायां तु तत्साधने प्रत्यक्ष
१ व्यापित्वादात्मनः । २ अपेक्ष्येणादृष्टेनापेक्षकस्याणुसंयोगस्य क्रिमयाण उपकारस्तस्मादभिन्नो भिन्नो वा स्यात् ? अमेदे सोपि तज्जन्यः स्यात् । भेदे संबन्धासिद्धिः । अथापकारमुपकारं कृत्वा तत्सम्बन्धीत्यादिपरिकल्पने चानवस्था । अयं संयोगस्योपकार इति न घटते अन्यथातिप्रसङ्गः । यथा संयोगस्य तथान्यस्यापि । तथा चात्मपरमाणुसंयोगस्य नित्यत्वव्याघातः स्यात् । ३ अदृष्टाणुसंयोगयोर्मध्येऽदृष्टस्य परमाणुसंयोगस्य वा। ४ अविशेषतः सर्वत्र तज्जननस्यापि प्रसङ्गात् । ५ आत्मनः। ६ अदृष्टात्माणुसंयोगयोः। ७ परेण । ८ ततश्चाणुसंयोगपरिकल्पनेन किम् । ९ बसः । १० ततश्च स्वाश्रयासंयुक्तमेव परमाण्वादिकमाकृष्यते आत्मना । ततश्च सर्वगतत्वपरिकल्पनेनालमात्मनः । ११ आत्मत्वेन । १२ आत्मनः । १३ उपादानकारणात् । १४ आत्मादिषु। १५ स्वावयवसंयोगपूर्वकत्वम् । १६ वजे आत्मनि च । १७ समानजातीयभिन्नावयव । १८ गर्भावस्थायाम् । १९ संस्कारस्य । २० तस्य आत्मनः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org