________________
५८४
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
पर्युदासपक्षेप्यसर्वगतद्रव्यपरिमाणसम्बन्धभावान्मूर्त्तत्वादन्यदमूर्त्तत्वं सर्वगतद्रव्यपरिमाणेन परममहत्त्वेन सम्बन्धा(ध)भावः, स च न कुतश्चित्प्रमाणात्प्रसिद्ध इति हेतोरसिद्धिः।
यच्चान्यदुक्तम्-आत्मा व्यापको मनोन्यत्वे सत्यस्पर्शवद्रव्यत्वा५दाकाशवदिति; तदप्येतेनैव प्रत्युक्तम् ; स्पर्शवद्रव्यप्रतिषेधेऽत्रापि प्रागुक्ताशेषदोषानुषङ्गात् । सन्दिग्धानकान्तिकश्चायं हेतुः; तथाहिअस्पर्शवद्रव्यत्वमाकाशादौ व्यापित्वे सत्युपलब्धं मनसि चाऽव्यापित्वे, तदिदानीमात्मन्युपलभ्यमानं किं 'व्यापित्वं प्रसाधयत्व
व्यापित्वं वा' इति सन्देहः । ननु मनोद्रव्यत्व(मनोऽन्यत्व)वि. १०शिष्टस्यास्पर्शवद्रव्यत्वस्य मनस्यनुपलम्भात्कथं सैन्देहोऽत्रेति
चेत् ? अत एव । यदि हि तद्विशिष्टं तत्तत्रोपलभ्येत तदा निश्चितानकान्तिकत्वमेवास्य स्यान्न तु सन्दिग्धानकान्तिकत्वमिति । तन्नात्मनः कुतश्चित्प्रमाणात्सर्वगतत्वसिद्धिरित्यसर्वगत एवासौ
यथाप्रतीत्यभ्युपगन्तव्यः। १५ ननु चात्मनोऽसर्वगतत्वे दिग्देशान्तरवर्तिभिः परमाणुभिर्यु
गपत्संयोगाभावोऽतश्चाद्यकाभावः, तदभावादन्त्यसंयोगस्य तन्निमित्तशरीरस्य तेन तत्सम्बन्धस्य चाभावादनुपायसिद्धः सर्वदात्मनो मोक्षः स्यात् । स्यादेवं यदि 'यद्येन संयुक्तं तं प्रति
तदेवोपसर्पति' इत्ययं नियमः स्यात् । न चास्ति-अयस्कान्तं २० प्रत्ययसस्तेनाऽसंयुक्तस्याप्युपसर्पणोपलम्भात् ।
यस्य चात्मा सर्वगतः तस्यारब्धकारन्यैश्च परमाणुभिर्युगपत्संयोगात्तथैव तच्छरीरारम्भं प्रत्येकमभिमुखीभूतानां तेषामुपसर्पणमिति न जाने कियत्परिमाणं तच्छरीरं स्यात् ।
ननु ये तत्संयोगास्तदऽदृष्टापेक्षास्त एव स्वसंयोगिनां परमाणू२५ नामाद्यं कर्म रचर्यन्तीति चेत्, अथ केयं तददृष्टापेक्षा नाम
एकार्थसमवायः, उपकारो वा, सहायकर्मजननं वा? तत्राद्यः पक्षोऽयुक्तः, सर्वपरमाणुसंयोगानां तददृष्टैकार्थसमवायसद्भा.
१ अस्पर्शवव्यत्वादित्यत्र नञ् पर्युदासः, प्रसज्यो वेत्यादि । २ विपक्षे बाधक प्रमाणं चेदस्ति तदा सन्देहो निवर्त्ततेऽनुपलम्भमात्रेण तु परचेतोवृत्तिविशेषवत् सन्देहो भवेदेवेति भावः। ३ शरीरारम्भकाणूनां शरीरोत्पत्तिदेशं प्रति गमनमायं कर्म । ४ शरीरनिष्पत्त्यवसानकालभावस्य । ५ शरीरारम्भकाणूनां शरीरोत्पत्तिदेशं प्रति गमनम्। ६ अत एव महच्छरीरं न स्यात् । ७ परमाणुसंयोगानाम् । ८ एकस्मिन्नात्मलक्षणेऽर्थे समवायोऽदृष्टस्य । ९ तस्यात्मनोऽदृष्टं तेन सहैकस्मिन्नर्थे आत्मलक्षणे समवायस्य सद्भावात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org