________________
५८३
सू० ४।१०] आत्मद्रव्यवादः हेतुर्विशेषणं यथा दण्डः पुरुषे । न च तुच्छाभावस्तत्प्रत्ययहेतुर्घटते; सकलशक्तिविरहलक्षणत्वादस्य, अन्यथा भाव एव स्यादर्थक्रियाकारित्वलक्षणत्वात् परमार्थसतो लक्षणान्तराभावात् । सत्तासम्बन्धस्य तल्लक्षणस्य कृतोत्तरत्वात् ।
किञ्च, गृहीतं विशेषणं भवति, "नाऽगृहीतविशेषणा विशेष्ये ५ बुद्धिः" [ ] इत्यभिधानात् । ग्रहणे चेतरेतराश्रयः । तथाहि-आत्मसम्बद्धनेन्द्रियेणासौ गृहीतः सिद्धः सन्नात्मनो विशेषणं सिध्यति, तत आत्मसम्बद्धनेन्द्रियेण ग्रहणमिति । यदि चात्मा स्वयमसर्वगतद्रव्यपरिमाणसम्बन्धविकलः सिद्धस्तर्हि तावतैव समीहितार्थसिद्धेः किमपरेण तदभावेनेति कथं विशे-१० षणम् ? अथ विपरीतः; कथं तदभावो यतो विशेषणम् ?
किञ्च, आत्मतदभावाभ्यां सह विशेषणीभावः सम्बद्धः, असम्बद्धो वा? सम्बद्धश्चेत् तर्हि यथात्मनि विशिष्टविज्ञान विधानादात्मनस्त(वो विशेषणम् , तथा विशेषणीभावोपि 'आत्मा विशेष्यस्तभावो विशेषणम्' इति विशिष्टप्रत्ययजननात् विशेषणं १५ समवायवत्प्रसक्तम् , तथा च तत्राप्यपरेण तत्सम्बन्धेन भवितव्य मित्यनवस्था । अथासम्बद्धः कथं विशेषणविशेष्याभिमतयोः स भवेत् यतस्तत्र विशिष्टप्रत्ययप्रादुर्भावः सम्बन्धो वा? विशिष्टप्रत्ययहेतुत्वाञ्चेत्, ईश्वरादौ प्रसङ्गः। तथापि स 'तयोः' इति कल्पने भावस्याभावः समवायिनोऽस(नोः स)मवायस्तथैव स्यादित्यलं २० तत्र विशेषणीभावसम्बन्धकल्पनया । तन्न प्रत्यक्षं तद्हणोपायः।
नाप्यनुमानम् ; परस्य प्रत्यक्षाभावे तदभावात्, तन्मूलत्वात्तस्य । नन्विदमस्ति-आत्माऽमूर्त इति बुद्धिर्भिन्नाभावनिमित्ता, अभावविशेषणभावविषयबुद्धित्वात् , अघटं भूतलमित्यादिबुद्धिवत्; इत्यप्यसारम् । तथाविधाभावस्य विशेषणत्वासिद्धिप्रतिपा-२५ दनात् । अभावविचारे चानयोर्हेतूदाहरणयोः प्रतिहतत्वान्न साध्यसाधकत्वम् ।
१ दण्डीति विशिष्टप्रत्ययहेतुः। २ शातम्। ३ मनसा । ४ मूर्त्तत्वाभावः। ५ असर्वगतद्रव्यं शरीरम् । ६ असर्वगतद्रव्यपरिमाणसंबन्धरहितः । ७ आत्मा अमूर्त इति । ८ मूर्तत्वाभावः। ९ गुणगुणिनोः समवाय इति । १० विशेषणीभावस्य विशेषणत्वे च । ११ स्वयं संबन्धरूपोपि नैव । १२ ईश्वरकालाकाशादयोपि विशिष्टप्रत्ययोत्पत्ती निमित्तकारणकास्तेषामपि विशेषणीभावः सम्बन्धो भवतीति शेषः । १३ संबन्धस्य । १४ सम्बन्धाभावेपि। १५ अभावो विशेषणमस्य, स चासौ भावश्च स विषयो यस्यास्तस्या भाव इति वाक्यम् । १६ द्रव्यत्वे सत्यमूर्तत्वादित्येतनिरासेन । १७ तुच्छरूपस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org