________________
प्रमेयक मलमार्त्तण्डे
[ ४. विषयपरि०
तदप्यसमीचीनम् ; यतोऽमूर्त्तत्वं मूर्त्तत्वाभावः तत्र किमिदं मूर्त्तत्वं नाम यत्प्रतिषेधोऽमूर्त्तत्वं स्यात् ? रूपादिमत्त्वम्, असर्वगतद्रव्यपरिमाणं वा ? प्रथमपक्षे मनसानेकान्तः, तस्य द्रव्यत्वे सत्यमूर्त्तत्वेपि सर्वगतत्वाभावात् । द्वितीयपक्षे तु किमसर्वगत५ द्रव्यं भवतां प्रसिद्धं यत्परिमाणं मूर्त्तिर्वर्ण्यते ? घटादिकमिति चेत्; कुतस्तत्तथा ? तथोपलम्भाच्चत् किं पुनरसौ भवतः प्रमाणम् ? तथा चेत्; तद्वदात्मनोपि स एवासर्वगतत्वं प्रसाधयतीति मूर्त्तत्वम्, अतः 'अमूर्त्तत्वात्' इत्यसिद्धो हेतुः । तदसाधने न प्रमाणम् - "लक्षणयुक्ते वाधासँम्भवे तल्लक्षणमेव दूषितं स्यात्" २० [ प्रमाणवार्तिकालं० ] इति न्यायात् । तथा चातो घटादावप्यसर्वगतत्वमतिदुर्लभम् । शक्यं हि वक्तुम्- 'घटादयः सर्वगता द्रव्यत्वे सत्यमूर्त्तत्वादाकाशवत्' इति । पक्षस्य प्रत्यक्षवाधनं हेतोश्चासिद्धिः उभयंत्र समाना ।
५८२
ननु चात्मनः सर्वगतत्वात्तत्रास्त्य मूर्त्तत्वम सर्वगतद्रव्यपरिमाण१५ सम्बन्धाभावलक्षणं न घटादौ विपर्ययात् । ननु चास्य कुतः सर्वगतत्वं सिद्धम् - साधनान्तरात्, अत एव वा ? साधनान्तराच्चेत्; तदेव ( तत एव ) समीहित सिद्धेः 'द्रव्यत्वे सत्यमूर्त्तत्वात्' इत्यस्य वैयर्थ्यम् । अत एव चेदन्योन्याश्रयः - सिद्धे हि तस्य सर्वगतत्वेऽसर्वगतद्रव्या (व्य) परिमाणसम्बन्धरूपमूर्त्तत्वाभावोऽमूर्त्तत्वं २० सिध्यति, अतश्च तत्सर्वगतत्वमिति ।
किञ्च 'अमूर्त्तत्वात्' इति किमयं प्रसज्यप्रतिषेधो मूर्त्तत्वाभावमात्रममूर्त्तत्वम्, पर्युदासो वा मूर्त्तत्वादन्यद्भावान्तरमिति ? तत्राद्यविकल्पोऽयुक्तः; तुच्छाभावस्य प्राक्प्रबन्धेन प्रतिषेधात् । सतोपि चास्य ग्रहणोपायाभावादज्ञातासिद्धो हेतुः । न हि प्रत्यक्ष२५ स्तग्रहणोपायः तस्येन्द्रियार्थसन्निकर्षजत्वात्, तुच्छाभावेन सह मनसोऽन्यस्य चेन्द्रियस्य सन्निकर्षाभावात् ।
१६.
नैनु मन आत्मना सम्बद्धमात्मविशेषणं च तदभावः, ततः सम्बद्ध विशेषणीभावस्तेन मनस इति । युक्तमिदं यद्यसावात्मनो विशेषणं भवेत् । न चास्यैतदुपपन्नम् । विशेष्ये हि विशिष्टप्रत्यय
१ वैशेषिकाणाम् । २ असर्वगतत्वेन । ३ उपलम्भः । ४ असर्वगतद्रव्यपरिमाणोपलम्भः प्रमाणस्य लक्षणम् । ५ प्रमाणे । ६ प्रमाणस्यात्मन्य सर्वगतत्वासाधनलक्षणे बाधासम्भवे । ७ तस्य = प्रमाणस्य । ८ आत्मन्यसर्वगतत्वोपलम्भस्याप्रमाणत्वे च । ९ आत्मनि घटादौ च । १० असर्वगतत्वात् । ११ अमूर्त्तत्वम् । १२ अभावनिराकस्णावसरे । १३ तुच्छाभावेन सह मनसः सन्निकर्षं दर्शयति परः । १४ अमूर्तत्वाभावः । १५ सम्बन्धः । १६ परेणोक्तं यत् । १७ मूर्त्तत्वाभावलक्षणं विशेषणम् ।
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International