________________
सू० ४.१०] आत्मद्रव्यवादः
५८१ आत्मनस्तु स्यात् यद्येकदेहपरित्यागेन देहान्तरमसौ व्रजेत्, तथा च घंटादिवत्तस्य सर्वत्रोपलभ्यमानगुणत्वमित्युभयोः सर्वगतत्वं न वा कस्यचिदविशेषात् ।
यच्चाकाशवदित्युक्तम्। तत्राकाशस्य को गुणः सर्वत्रोपलभ्यते-शब्दः, महत्त्वं वा? न तावच्छब्दः; अस्याकाशगुणत्वनिषे-५ धात् । नापि महत्त्वम् ; अस्यातीन्द्रियत्वेनोपलम्भासम्भवात् ।
एतेन 'वुद्ध्यधिकरणं द्रव्यं विभु नित्यत्वे सत्यस्मदाधुपलभ्यमानगुणाधिष्ठानत्वादाकाशवत्' इत्यपि प्रत्युक्तम् ; साधनविकलत्वादृष्टान्तस्य । हेतोश्चानैकान्तिकत्वम् , परमाणूनां नित्यत्वे सत्यस्मदाधुपलभ्यमानपाकजगुणाधिष्ठानत्वेपि विभुत्वाभावात् । तत्पा-१० कजगुणानामस्मदाद्यप्रत्यक्षत्वे हि 'विवादाध्यासितं क्षित्यादिकमुपलब्धिमत्कारणं कार्यत्वाद्धटादिवत्' इत्यत्र प्रयोगे व्यातिर्न स्यात् । अथ 'नित्यत्वे सत्यस्मदादिबाह्येन्द्रियोपलभ्यमानगुणत्वात्' इत्युच्यते, तर्हि बाह्येन्द्रियोपलभ्यमानत्वस्य बुद्धावसिद्धर्विशेषणासिद्धो हेतुः।
नित्यत्वं च सर्वथा, कश्चिद्वा विवक्षितम् ? सर्वथा चेत्; पुनरपि विशेषणासिद्धत्वम् । कथञ्चिच्चेत्, घटादिनानेकान्तः, तस्य कथञ्चिन्नित्यत्वे सत्यस्मदाधुपलभ्यमानगुणाधिष्ठानत्वेपि विभुत्वाभावात्।
यदप्युक्तम्-सर्वगत आत्मा द्रव्यत्वे सत्यमूर्त्तत्वादाकाशवत् । २० 'द्रव्यात्' (द्रव्यत्वात्) इत्युच्यमाने हि घटादिना व्यभिचारः, तत्परिहारार्थम् 'अमूर्त्तत्वात्' इत्युक्तम् । 'अमूर्त्तत्वात्' इत्युच्यमाने च रूपादिगुणेन गमनादिकर्मणा वानेकान्तः, तन्निवृत्त्यर्थ 'द्रव्यत्वे सति' इत्युक्तम् ।
१ घटपक्षे देशान्तरपरित्यागेन देशान्तरमसौ व्रजेत् । २ लोकत्रये। ३ आत्मघटयोः । ४ आत्मनोपीत्यर्थः । ५ उभयोर्गमनस्य । ६ अतः साधनविकलो दृष्टान्तः । ७ सर्वत्रोपलभ्यमानगुणत्वादित्यस्य निराकरणपरेण ग्रन्थेन । ८ परमाणुभिर्व्यभिचारपरिहारार्थम् । ९ घटादिना व्यभिचारनिराकरणार्थम् । १० परेणाङ्गीक्रियमाणे । ११ ईश्वरस्य । १२ तत्पाकजगुणानामस्मदाद्यप्रत्यक्षत्वे यद्यत्कार्य तत्तद्धीमद्धेतुकमिति मानसप्रत्यक्षेण साकल्येन व्याप्तिग्रहणं न स्यादिति भावः । कार्याप्रत्यक्षत्वे कार्यकारणयोाप्त्यसम्भवात् । १३ गुणरूपायाम् । १४ द्रव्यापेक्षया । १५ असर्वगत. द्रव्यपरिमाणलक्षणमूर्तत्वस्य रूपादिष्वभावाद्रूपादीनाममूर्तत्वम्, रूपादीनां तत्परिमाणाभावः कुतः ? निर्गुणा गुणा इत्यभिधानात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org