________________
५८०
प्रमेयकमलमार्तण्डे [४. विषयपरि० किञ्च, आत्मनो निष्क्रियत्वे संसाराभावो भवेत् । संसारो हि शरीरस्य, मनसः, आत्मनो वा स्यात् ? न तावच्छरीरस्य; मनुष्यलोके भस्मीभूतस्यामरपुराऽगमनात् ।
नापि मनसः, निष्क्रियस्यास्यापि तद्विरहात् । सक्रियत्वेपि ५तक्रियायास्ततोऽभेदे तद्वत्तदनित्यत्वप्रसङ्गानास्य कचित्क्षणमात्रमवस्थानं स्यात् । भेदे सम्बन्धासिद्धिः, समवायनिषेधात् ।
अचेतनं च तदनिष्टनरकादिपरिहारेणेष्टे स्वर्गादौ कथं प्रवर्तेतस्वभावतः, ईश्वरात्, तदात्मनः, अदृष्टाद्वा? प्रथमपक्षे दत्तः
सर्वत्र ज्ञानाय जलाञ्जलिः । अथेश्वरप्रेरणात्; न; तनिषेधात् । १० को वायमीश्वरस्याग्रहो यतस्तत्प्रेरयति, न तदात्मानम् ? अस्य प्रेरणे चेर्दैमनुगृहीतं भवति-.
"अज्ञो जन्तुरनीशोयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥"
[महाभा० वनपर्व० ३०१२८] इति । १५ तदात्मप्रेरणात्' इत्यत्रापि ज्ञातम् , अज्ञातं वा तत्तेन प्रेर्यंत ? न
तावदाद्यो विकल्पः, जन्तुमात्रस्य तत्परिज्ञानाभावात् । नापि द्वितीयः; अज्ञातस्य बाणादिवत्प्रेरणासम्भवात् । ननु स्वप्ने खहस्तादयोऽज्ञाता एव प्रेर्यन्ते; न; अहितपरिहारेण हिते प्रेरणा(5)
सम्भवात् , ज्वलज्वलनज्वालाजालेपि तत्प्रेरणोपलम्भात् । २० अदृष्टप्रेरणात्; इत्यप्यसारम् ; अचेतनस्यापि(स्यास्यापि) तत्प्रे.
रकत्वायोगात् । तत्प्रेरितस्यात्मन एवं वरं प्रवृत्तिरस्तु चेतनत्वा. त्तस्य । दृश्यते हि वशीकरणौषधसंयुक्तस्य चेतनस्यानिष्टगृहगमनपरिहारेण विशिष्टगृहगमनम् । तन्न मनसोपि संसारः।
- १ पर्यायापेक्षया। २ क्रियामनसोः समवायेन सम्बन्धो भविष्यतीत्युक्ते सत्याहाचार्यः। ३ परमतेऽचेतनं मनः। ४ मनःसम्बन्धिजीवात् । ५ इष्टानिष्टवस्तुषु । ६ शानाभावेप्यचेतनस्य मनस इष्टानिष्टवस्तुषु प्रवृत्तिनिवृत्तिदर्शनात् । ७ मन एव प्रेरयति नात्मानमयमेवाग्रह इत्याशङ्कयाह । ८ अग्रे वक्ष्यमाणं भवच्छास्त्रोक्तम् । ९ भवता स्वीकृतम् । १० मनसः प्रेरणे चेदमनुगृहीतं न भवतीति भावः । ११ तदात्मना। १२ अणुरूपमचेतनमतीन्द्रियं मनस्तस्य । १३ अनैकान्तिकत्वं भावयति । १४ 'इति चेत्' इत्युपरितः। १५ तुर्थो विकल्पः। १६ मन एव । १७ न मनसः । १८ अनिष्टनरकादिपरिहारेणेष्टस्वर्गादौ। १९ चेतनत्वादात्मनः प्रवृत्तिरसिद्धत्युक्त सत्याहाचार्यः।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org