________________
सू० ४।१० ]
आत्मद्रव्यवादः
५७९
यच्चान्यदुक्तम्- 'सर्वगत आत्मा सर्वत्रोपलभ्यमान गुणत्वादाकाशवत्' इति तत्र किं खशरीर एव सर्वत्रोपलभ्यमानगुणत्वं हेतुः, उत स्वशरीरवत्परशरीरेऽन्यंत्र च ? तत्र प्रथमपक्षे विरुद्धो हेतुः, तत्रैव ततस्तस्य सर्वगतत्वसिद्धेः । द्वितीयपक्षे त्वसिद्धः, तथोपलम्भाभावात् । न खलु बुद्ध्यादयस्तहुणाः सर्वत्रोपलभ्यन्ते, ५ अन्यथा प्रतिप्राणि सर्वशत्वादिप्रसङ्गः ।
7
Ε
अथ मन्याखेवत्खेदान्तरे मनुष्यजन्मवजन्मान्तरे चोपलभ्यमानगुणत्वं विवक्षितम् ; तत्किं युगपत् क्रमेण वा ? युगपञ्चेत्; असिद्धो हेतुः । क्रमेण चेत्; सर्वे सर्वगताः स्युः घटादीनामपि तथा सर्वत्रोपलभ्यमानगुणत्वसम्भवात् । तेषां देशान्तरगमना- १० तत्सम्भवे आत्मनोपि ततस्तत्सम्भवोस्तु तद्वत्तस्यापि सक्रियत्वात् । प्रत्यक्षेण हि सर्वो देशाद्देशान्तरमायातमात्मानं प्रतिपद्यते, तथा च वदत्यहमद्य योजनमेकमागतः । मनः शरीरं वागतमिति चेत्; किं पुनस्तदहम्प्रत्ययवेद्यम् ? तथा चेत्; चार्वाकमतानुषङ्गः ।
*
ननु चास्य सक्रियत्वे लोष्टादिवन्मूर्त्तिभिः सम्बन्धः स्यात् । १५. तत्र केयं मूर्तिर्नाम - असर्वगतद्रव्यपरिमाणम्, रूपादिमत्त्वं वा स्यात् ? तत्राद्यपक्षो न दोषावहः, अभीष्टत्वात् । न हीष्टमेव दोषाय जायते । रूपादिमती मूर्त्तिः स्यादिति चेत्; न; व्योत्यभावात् । रूपादिमन्मूर्त्तिमानात्मा सक्रियत्वाद्वाणादिवत् इत्यप्यसुन्दरम् ; मनसाऽनैकान्तिकत्वात् । न चास्य पक्षीकरणम्; 'रूपादिविशेषगुणा- २० नधिकरणं सन्मनोर्थे प्रकाशयति शरीरादर्थान्तरत्वे सति सर्वत्र ज्ञानकारणत्वादात्मवत्' इत्यनुमानविरोधानुषङ्गात् ।
;
ननु सक्रियत्वे सत्यात्मनोऽनित्यत्वं स्याद्वटादिवत्; इत्यपि वार्त्तम्; परमाणुभिर्मनसा चानेकान्तात् ।
किञ्च, अस्यातः कथञ्चिदनित्यत्वं साध्येत, सर्वथा वा ? कथ - २५. ञ्चिचेत्; सिद्धसाधनम् । सर्वथा चानित्यत्वस्य घटादावप्यसिद्धत्वात्साध्यविकलता दृष्टान्तस्य ।
१ अन्तराले । २ परशरीरादौ । ३ आदिना दुःखित्वादिग्रहः । ४ द्वितीयपक्षे दूषणान्तरप्ररूपणार्थं परमाशङ्क्याह । ५ अयं शब्दो ग्रामभेदे | ६ तथा प्रतीतेरभावात् । ७ तत आत्मना मूर्तिमता भाव्यमिति भावः । ८ शरीरमसर्वगतद्रव्यमत्र । ९ यद्यत्सक्रियं तत्तद्रूपादिमन्मूर्तिमदिति । १० मनसः सक्रियत्वेपि रूपादिमन्मूर्तिमत्त्वाभावात् । ११ एवं निरूपणे घटेन व्यभिचारः १२ इष्टानिष्टार्थेषु । १३ ज्ञानकारणत्वादित्युच्यमाने चक्षुषा व्यभिचारस्तन्निवृत्त्यर्थं सर्वत्रेति विशेषणम्, तथापि शरीरेण व्यभिचारपरिहारार्थं शरीरादित्यादि । १४ कारणमत्र सहकारि ।
1
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org