________________
५७८
प्रमेयकमलमार्तण्डे [४. विषयपरि० आत्मप्रदेशो वा? यदि शरीरम् ; तर्हि शरीरं प्रत्युपसर्पणाच्छरीरगुणाकृष्टाः पश्वादय इत्यात्मविशेषगुणाकृष्टत्वे साध्ये शरीरगु. णाकृष्टत्वसाधनाद्विरुद्धो हेतुः।
अथात्मा; तस्य समाकृष्यमाणार्थदेशकालाभ्यां संदाभिसम्ब५न्धान तं प्रति किञ्चिदुपसर्पेत् । न हत्यन्ताश्लिष्टकण्ठकामिनी कामुकमुपसर्पति । अन्यदेशो हर्थोऽन्यदेशं प्रत्युपसर्पति, यथा लक्ष्यदेशार्थ प्रति बाणादिः। अन्यकालं वा प्रत्यन्यकालः, यथाङ्कुरं प्रत्यपरापरशक्तिपरिणामलाभेन बीजादिः । न चैतेंदुभयं नित्य
व्यापित्वाभ्यामात्मनि सर्वत्र सर्वदा सन्निहिते सम्भवति, अतो १० 'देवदत्तं प्रत्युपसर्पन्तः' इति धर्मिविशेषणं 'देवदत्तगुणाकृष्टाः' इति साध्यधर्मः 'तं प्रत्युपसर्पणवत्त्वात्' इति साधनधर्मः परस्य खरुचिविरचित एव स्यात् ।। ' अथ शरीरात्मसंयोगो देवदत्तशब्दवाच्यः, न; अस्य तच्छन्द
वाच्यत्वे तं प्रति चैषामुपसर्पणे 'तगुणाकृष्टास्ते' इत्यायातम् । न १५ च गुणेषु गुणाः सन्ति, निर्गुणत्वात्तेषाम् । ___ 'आत्मसंयोगविशिष्टं शरीरं तच्छब्दवाच्यम्' इत्यत्रापि पूर्व वद्विरुद्धत्वं द्रष्टव्यम् ।
"शरीरसंयोगविशिष्ट आत्मा तच्छब्दवाच्यः' इत्यत्रापि प्राक्तन एव दोषः नित्यव्यापित्वेनास्य सर्वत्र सर्वदा सन्निधानानिवार२० णात् । न खलु घटसंयुक्तमाकाशं मेर्वादौ न सन्निहितम् ।
अथ शरीरसंयुक्त आत्मप्रदेशस्तच्छब्देनोच्यते; स काल्पनिकः, पारमार्थिको वा? काल्पनिकत्वे काल्पनिकात्मप्रदेशगु. णाकृष्टाः पश्चादयस्तथाभूतात्मप्रदेशं प्रत्युपसर्पणवत्वादिति तहु
णानामपि काल्पनिकत्वं साधयेत् । तथा च सौगतस्येव तदुणकृतः २५ प्रेत्यभावोपि न पारमार्थिकः स्यात् । न हि कल्पितस्य पावकस्य रूपादयस्तत्कार्य वा दाहादिकं पारमार्थिक दृष्टम् ।
पारमार्थिकाश्चेदात्मप्रदेशाः; ते ततोऽभिन्नाः, भिन्ना वा? यद्यभिन्नाः; तदात्मैव ते, इति नोक्तदोषपरिहारः। भिन्नाश्चेत् ; द्वि
शेषगुणाकृष्टाः पश्वादय इत्येतत्तेषामेवात्मत्वं प्रसाधयतीत्यन्यात्म३० कल्पनानर्थक्यम् । कल्पने वा सावयवत्वेन कार्यत्वमनित्यत्वं
चास्य स्यादित्युक्तम् । । १ नित्यसर्वगतत्वादात्मनः । २ देशकालकृतोपसर्पणम् । ३ वैशेषिकस्य । ४ इति चेदिति योज्यम् । ५ पश्वादीनाम् । ६ अग्निर्माणवक इत्यादौ । ७ आत्मनः समान कृष्यमाणार्थदेशकालाभ्यामित्यादिना । ८ तस्य आत्मनः। ९ आत्मप्रदेशानाम् । १० घटवत् ।. .... ....
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org