________________
सू० ४।१०]
आत्मद्रव्यवादः
५७७
केनचिदाकृष्टाः पश्वादयः किं वाचनादिसधर्मणा' इति सन्देहः । शक्यं हि परेणाप्येवं वक्तुम्-विवादापन्नाः पश्वादयोऽअनादिसधर्मणा समाकृष्टास्तं प्रत्युपसर्पणवत्त्वात् स्यादिवत् । अथ तदभावेपि प्रयत्नादपि तदृष्टरनेकान्तः, तर्हि प्रयत्नसधर्मणो गुणस्याभावेप्यञ्जनादेरपि तदृष्टेर्भवदीयहेतोरप्यनैकान्तिकत्वं स्यात् । अत्रा-५ नुमीयमानस्य प्रयत्नसधर्मणो हेर्तुत्वाव्यभिचारे अन्यत्राप्यञ्जनादिसधर्मणोनुमीयमानस्य हेतुत्वाव्यभिचारः स्यात् । तंत्र प्रयत्न स्यैव सामर्थ्यादेस्य वैफल्ये अत्रौप्यअनादेरेव सामर्थ्यात्तद्वैफल्यं किं न स्यात् ? अथाअनादेरेव तद्धेतुत्वे सर्वस्य तद्वतः ख्याद्याकर्षणं स्यात्, न चाञ्जनादौ सत्यप्यविशिष्टे तद्वतः सर्वान्प्रति १० ख्याद्याकर्षणम्, ततोऽवसीयते तदविशेषेपि यद्वैकल्यात्तन्न स्यात्तदपि तत्कारणं नाञ्जनादिमात्रम्, इत्यप्यपेशलम् ; प्रयत्न कारणेपि समानत्वात् । न खलु सर्व प्रयत्नवन्तं प्रति ग्रासादयः समुपसपन्ति तदपहारादिदर्शनात् । ततोऽत्राप्यन्यत्कारणमनुमीयताम् , अन्यथा न प्रकृतेप्यविशेषात् । __ अञ्जनादेश्च ख्याद्याकर्षणं प्रत्यकारणत्वे घटादिवत्तदर्थिनां तदुपादानं न स्यात् । उपादाने वा सिकतासमूहात्तैलवन्न कदाचित्ततस्तत्स्यात् । न च दृष्टसामर्थ्यस्याञ्जनादेः कारणत्वपरिहारेणात्रान्यकारणत्वकल्पने भवतोऽनवस्थातो मुक्तिः स्यात् । अथाअनादिकमदृष्टसहकारि तत्कारणं न केवलम् ; हन्तैवं सिद्धमदृष्ट-२० वदञ्जनादेरपि तत्कारणत्वम् । ततः सन्देह एव-'किं ग्रासादिवत्प्रयत्नसधर्मणाकृष्टाः पश्वादयः किं वा ख्यादिवदञ्जनादिसधर्मणा तत्संयुक्तेन द्रव्येण' इति । परिस्पन्दमानात्मप्रदेशव्यतिरेकेण ग्रासाद्याकर्षणहेतोः प्रयत्नस्यापि तद्विशेषगुणस्य परं प्रत्यसिद्धेः साध्यविकलता दृष्टान्तस्य ।
यञ्चोक्तम्-'देवदत्तं प्रत्युपसर्पन्तः' इति; तत्र देवदत्तशब्दवाच्यः कोर्थः-शरीरम् , आत्मा, तत्संयोगो वा, आत्मसंयोगविशिष्टं शरीरं वा, शरीरसंयोगविशष्ट आत्मा वा, शरीरसंयुक्त
१ गुणेन । २ अदृष्टलक्षणेन द्रव्यविशेषेण । ३ जैनेनापि । ४ गुणेन समाकृष्टा द्रव्येण वेति । ५ अञ्जनादिसधर्मद्रव्यविशेषाभावेपि। ६ तस्य प्रासाचाकर्षणस्य । ७ तस्य ख्याधाकर्षणस्य । ८ उपसर्पणकारणत्वात् । ९ अदृष्टलक्षणद्रव्यविशेषस्य । १० ख्याधाकर्षणे । ११ ग्रासाद्याकर्षणे। १२ द्रव्यस्य । १३ रुयाद्याकर्षणेपि । १४ प्राणिनः। १५ अदृष्ट । १६ यसः। १७ वैशेषिकस्य । १८ दृष्टसामर्थ्यस्थान्यकारणस्य परिहारेणेत्यादिप्रकारेण । १९ कारणानां पूर्वपूर्वकारणपरित्यागेनाऽपरापरकारणपरिकल्पनात् । २० अदृष्ट । २१ आत्मना। २२ द्रव्यमिदम् ।
प्र. क. मा०४९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org